________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
प्रत्ययः, रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात् , पत्रादिशब्दानां क्रियाप्रकारकबोधजनकत्वेन तेभ्यः क्रियायाः सम्प्रत्ययः, संसर्गप्रकारकबोधजनकत्वमते च संसर्ग इत्यादिव्यवस्था सूपपादा, यद्वा “सवें भावाः स्वेनार्थेन भवन्ति स तेषां भाव" इति वार्तिके पक्षान्तरोक्तेः भवन्ति वाचकत्वेन प्रवर्त्तन्त इति भावाः स्वेन स्वरूपेणार्थेन भवन्ति प्रवर्त्तन्तेऽतः स तेषा| मर्थानां भावः प्रवृत्तिनिमित्तमिति तदर्थाच्छब्दोऽपि त्वप्रत्ययार्थः, अर्थवच्छब्दस्यापि द्रव्ये प्रकारत्वात् , अदृष्टार्थकदशरथादिपदेषु तत्तच्छब्दवाच्यत्वेनैव बोधस्य सर्वसिद्धत्वात् , दशरथत्वादिना शाब्दबोधस्योपपादयितुमशक्यत्वात् , अदृष्टदशरथादीनां दशरथत्वादिप्रकारकबोधाभावेन विशेषणग्रहाभावाद् दशरथत्वविशिष्टादौ शक्तिग्रहासम्भवेन पदजन्यदशरथत्वादिविशिष्टपदार्थोपस्थितेरभावात , प्रमेयवानित्यनुभवजन्ये संस्कारे प्रमेयत्वांशे मोपवशाद्दशरथत्वमात्रप्रकारकस्मृतिजनकोदोधकवशाद्दशरथत्वप्रकारकस्मरणस्यापि तदंशेऽन्याप्रकारकतत्प्रकारकस्मरणे तादृशसंस्कारहेतुत्वावश्यकत्वेन वक्तुमशक्यत्वात् , अन्यथा जातित्वेन घटत्वप्रकारकसंस्कारादपि जातित्वांशे मोषदशायां घट इति स्मरणापत्तेः, न च प्रमेयाभाववदित्याकारकज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्वलक्षणसम्बन्धविषयकाद् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभव: सुलभ इत्यपि वक्तुं शक्यम् , सांसर्गिकज्ञानस्य सार्वज्यापत्तिभयेनोपनायकत्वानभ्युपगमात् , एतेन यत्र दशरथत्वादिसम्बन्धेन घटादिभ्रमो जातः तत्र तथाविधशक्तिग्रहोपपादनं सुकरमिति रघुदेवोक्तमप्यपास्तम् , तस्मादर्थवच्छब्दस्यापि शक्यतावच्छेदकत्वं युक्तम् , घटादिपदेष्वपि घटत्वादिकं घटादिपदं चेत्युभयं शक्यतावच्छेदकम् , तत्र जातिप्रकारका शक्तिग्रहो विशिष्यापेक्षितः, पदप्रकारकस्त्विदं पदं क्वचिच्छक्तमिति सामान्यत एवेति विशिष्यागृहीतशक्तिकेभ्यः किश्चि
4459-2-2-
26-
06- 24
For Private And Personal Use Only