SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 42% धनत्वाद्यनुमाय तत्र प्रवर्तते प्रेक्षावान् , कलञ्जभक्षणादौ तदभावान्न प्रवर्त्तते । यस्तु वेदे पौरुषेयत्वं नाभ्युपैति तं प्रति विधिरेव तावद् गर्भ इव कुमार्याः पुंयोगे मानमित्याहुः । वयं तु ब्रूमः-कार्यादिरूपनियोगस्येष्टसाधनत्वादेर्वा लिङर्थत्वमित्यत्र नास्माकमेकान्तः, शब्दशक्तेर्विचित्रत्वात् , यथाव्युत्पत्ति जायमानस्य विचित्रबोधस्य च लाघवमात्रेणानपवदनीयत्वात्, प्रवृत्तिहेतुता तत्तदर्थज्ञानानां तद्विषयकवीर्यान्तरायकर्मक्षयोपशमजनकत्वेनैव भ्रमिजनकत्वेनेव घटं प्रति दण्डस्यान्यं प्रतीत्याद्यन्यथासिद्धौ फलाननुगुणत्वरूपान्यविशेषणप्रक्षेपध्रौव्येण प्रकृते तदभावात् , इत्थं चेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकेप्यलसस्या प्रवृत्युपपत्तिः, विध्यर्थज्ञानेऽपि तत्रालस्यदोषप्रतिबन्धेन वीर्यान्तरायकर्मक्षयोपशमानिष्पत्तेः, इत्थमेव चाविरतसम्यग्दृष्ट्यादेः शक्यविरत्यादौ प्रवृत्त्यभावोपपत्तिः, तत्र तस्य बलबदनिष्टहेतुताज्ञानेबलबद्वषे वाऽभ्युपगम्यमाने सम्यक्त्वक्षतिरेव, विपर्ययस्य मिथ्यात्वलक्षणत्वात् , अत एव श्रद्धालोः शक्यविरत्याद्यभावोपपत्तये चारित्रमोहनीयं कर्म कल्प्यत इत्यन्यत्र विस्तरः। नन्वेवं नियोगनिराकरणेऽपीत्यादिना नियोगस्य वाक्यार्थत्वं निराकृत्य भावनायास्तत्वसाधनायोद्यतं भाट्ट प्रति तर्हि विधिरेव वाक्यार्थोस्तु न भावनेत्यन्तरा वल्गतो वेदान्तिनो मतं सौगतनयाश्रयणेन दूषयति । परमब्रह्मणो विधिरेवेत्यादि, अधिकरणस्वरूपत्वाभावस्येत्यर्थः, तस्य चेति स्वरूपविधेरित्यर्थः, सामान्यैकग्राणत्वादस्यान्यापोहवादे न विरोध इति भावः। विधिवादिलोऽपिति, तत्रापि सदद्वैतेनातव्यावृत्तेरभावात्मिकाया अस्पर्शादित्यर्थः, प्रतिभाससमानाधिकरणत्वेनेति, भातीतिक्रियासमानाधिकरणत्वेनेत्यर्थः, तथा चायं प्रयोगः, अन्यापोहः प्रतिभासान्तः प्रविष्टः भातीतिक्रियासमा * पत्र १८ पृ. १ पं. ३ । । पत्र १८ पृ. २ पं. १ । पत्र १८ पृ. २ पं. ३ । ई पत्र १८ पृ. २ पं. ४ । ACAREERICAREE For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy