SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ ५१ ॥ www.kobatirth.org asपि सुखा चिकीर्षोत्पत्तेरिष्टत्वात्, मण्डलीकरणादौ चोपायेच्छासामान्य सामग्र्यभावेनैव तदभावात् का पुनः सेति चेत्, इष्टसाधनताज्ञानं बलवदनिष्टाननुबन्धित्वज्ञानं चेत्याहुः । केचिच्चिष्टसाधनत्वमेव विध्यर्थः । न तु कृतिसाध्यत्वमपि, यागादौ सर्वत्र लोकत एव तस्यावगम्यमानत्वेनान्यलभ्यत्वात्, अत एव प्रवृत्तिकारणमिष्टसाधनताज्ञानमेव न तु कृतिसाध्यताज्ञानमपि, बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतुः । प्रवृत्तौ कार्यसहभावेन द्वेषस्य प्रतिबन्धकत्वेन तदभावेनान्यथासिद्धत्वात्, आस्तिककामुकस्यागम्यागमनादौ नरकसाधनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावकालीनप्रवृत्तौ व्यभिचाराच्च, न चोकटरागेण नरकासाधनत्वज्ञानमेव कामुकस्य जन्यत इति शक्यं वक्तुम्, आस्तिकत्वव्याघातात् तस्य समानविषयतया द्वेषप्रतिबन्धकत्वकल्पन एवं लाघवाच्च । तदुक्तं मण्डनमिश्रैः- “ पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् ||१||" इतीत्याहुः परे तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्त्तकम्, अनागतस्य तस्य ज्ञातुमशक्यत्वात्, किन्तु यादृशस्य पुंसः कृतिसाध्यं यद् दृष्टं तादृशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्त्तते प्रेक्षावान्, तथा चौदनकामस्य तत्साधनताज्ञानवतस्तदुपकरणवतः पाकः कृतिसाध्यस्तादृशञ्चाहमिति प्रतिसन्धाय पाके प्रवर्त्तत इत्याहुः, तन्न, स्वकल्पितलिप्यादिप्रवृत्तौ यौवने कामोद्भेदादिना सम्भोगादिप्रवृत्तौ च तदभावात् इदं तु बोध्यम्, इदानीमिष्टसाधनतादिज्ञानं प्रवर्त्तकम् तेन भावियौवराज्ये बालस्य न प्रवृत्तिः, तदानीं कृतिसाध्यत्वाभावात् तृप्तस्य च भोजने न प्रवृत्तिः, तदानी - मिष्टसाधनत्वाभावादिति । उदयनाचार्यास्तु आप्ताभिप्रायो विध्यर्थः, पाकं कुर्यादित्यादावाज्ञादिरूपेच्छावाचित्ववल्लिङ्मात्रस्येच्छावाचित्वे लाघवात्, एवं स्वर्गकामो यजेतेत्यादौ यागः स्वर्गकामकृतिसाध्यतयाप्तेष्ट इत्यर्थः, ततश्चाप्तेष्टत्वेन स्वेष्टसा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ।। ॥ ५१ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy