SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir इत्यर्थः । न कस्यचिदिति सुगतायेकं पक्षीकृत्य महत्त्वे साध्ये तीर्थकरत्वहेतोः कपिलादिना व्यभिचारादित्यर्थः । नैव भवेदित्यायातमिति काक्वेति शेषः । अत एवेत्यादि, लब्धावकाशस्य मीमांसकस्य शङ्कयं श्रुतेरेवेति, अपौरुषेयत्वेन तस्याः प्रमाजनकत्वनिश्चयात् पौरुषेयत्वे भ्रमादिसम्भवादप्रामाण्यशङ्काया अनिरासादिति भावः, इत्यपर इति मीमांसकः शङ्कत इत्यर्थः। तस्यापि निराकरणमावृत्त्याऽनयेव कारिकयेत्याशयवानाह-' तं प्रत्यपीयमेवेत्यादि, भावना यदीति, 'वाक्यार्थो विधिवाक्यार्थः, अत्र भावना वाक्याथों भाद्दानां, नियोगः प्राभाकराणां, *कार्येऽर्थे इति, चोदनाज्ञानं विधिप्रत्ययघटितवाक्यार्थज्ञानम् , स्वरूपे कार्यतानुपरक्ते । अत्र हि कार्यान्वितशक्तिवादिनः प्रवृत्तौ ।। कार्यत्वविशिष्टज्ञानस्य हेतुत्वावधारणात् प्रयोजकवृद्धवाक्वश्रवणानन्तरं प्रयोज्यवृद्धप्रवृत्ती हेत्वाकांक्षायामुपस्थितत्वाच्छब्दमेव तथाऽवधारयंस्तटस्थस्तनिर्वाहिकां कार्यत्वान्विते शब्दत्वावच्छेदेन शक्ति कल्पयति, तदनु चावापोद्वापाभ्यां घटादिपदे शक्तिं गृहन्नाद्यकल्पनानुरोधात्कार्यान्वितघटादावेव तां कल्पयति नतु केवलघटादावेव, आद्यव्युत्पत्तिविरोधादिति, कार्यतावाचकपदसमभिव्याहाराभावे सर्व वाक्यं मूकमेव, व्यवहारस्त्वसंसर्गाग्रहात् , न च सर्वस्य पदस्य कार्यान्विते शक्तस्तद्वाचकपदासमभिव्याहारो दुर्वचः, शक्तिििवधाऽनुभाविका स्मारिका च, आद्या कार्यत्वान्विते, द्वितीया च जाताविति व्यवस्थितः, तथा च घटादिपदात्कार्यत्वानुपस्थितेन तदन्वयबोधः, कार्यत्वान्वयबोधे तदुपस्थितेरपि हेतुत्वादिति • पत्र १४ पृ. २ पं. २ ।। पत्र १४ पृ. २ पं. २ प.१४ पृ. २ पं. ३ । ६ पत्र १४ पृ.२पं.३ । ई पत्र १४ पृ.२पं.३ । पत्र १४ पृ.२पं. 51+ पत्र १४ पृ. २ पं. ७ | ४ पत्र १४ पृ. २ पं. ८ । पत्र १४ पृ. २ पं.८ पत्र १४ पृ. २ पं.८ । MC For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy