________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
अष्टसहस्री निर
परिच्छेदः प्रथमः॥
॥४७॥
प्रत्यक्षेपि सास्त्यवेति वक्तुं शक्यम् अञ्जनादिभिरसंस्कृतचक्षुषोऽस्मदादेरालोकापेक्षोपलक्षणात् तत्सं- स्कृ तचक्षुषोपि कस्यचिदालोकापेक्षाप्रसङ्गात् । नक्तश्चराणामालोकापायेपि स्पष्टरूपावलोकनप्रसिद्ध लोको नियतं कारणं प्रत्यक्षस्येति चेत् , तर्हि सत्यस्वप्मज्ञानस्येक्षणिकादिज्ञानस्य च स्पष्टस्य चक्षुराद्यनपेक्षस्य प्रसिढेरक्षमपि नियतं प्रत्यक्षकारणं मा भूत् । ततो यथाञ्जनादिसंस्कृतचक्षुषामालोकानपेक्षा स्फुटं रूपेक्षणे तथा साकल्येन विरतव्यामोहस्य सर्वसाक्षात्करणेऽक्षानपेक्षा। इति करणक्रमव्यवधानातिवतिसकलप्रत्यक्षो भवभृतां गुरुः प्रसिद्ध्यत्येव ।
यतश्चासौ न देवागमादिविभूतिमत्त्वादध्यात्म बहिरपि दिव्यसत्यविग्रहादिमहोदयाश्रयत्वाद्वा महान् , नापि तीर्थकृत्त्वमात्रात्, यतश्च तीर्थच्छेदसम्प्रदायोपि वैदिको नियोगभावनादिसम्प्रदायो न संवादकः प्रत्यक्षकप्रमाणवादिसम्प्रदायस्तत्त्वोपप्लववादिसम्प्रदायो वा सर्वाप्तवादो वा न प्रमाणभृतो व्यवतिष्ठते, ततः सुनिश्चितासंभवद्वाधकप्रमाणो भगवन् भवानेव भवभृतां प्रभुरात्यन्तिकदोषावरणहान्या साक्षात्मबुद्धाशेषतत्त्वार्थत्वेन च मुनिभिः सूत्रकारादिभिरभिष्ट्रयते। इति समन्तभद्राचार्यनिरूपिते सति कुतस्तावदात्यन्तिकी दोषावरणहानिर्मयि विनिश्चितेति भगवता पर्यनुयुक्ता इवाचार्याः प्राहः।___ *परस्परविरुद्धसमयाभिधायिन इति भाष्ये हेतुगर्भ विशेषणं, परस्परविरुद्धसमयाभिधायित्वान्न सर्वे सर्वदर्शिन
* पत्र १४ पृष्ठ १ पंक्ति १४ ।
2044
॥ ४७
For Private And Personal Use Only