________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kallassagarsur Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्रीला
दिव्यवहारदर्शनाच सत्ता करोत्यर्थविशेषणमेव । करोत्यर्थस्यैव सर्वत्र प्राधान्याद्वाक्यार्थत्वम् । इति विवरणम् ॥ चेत्, न, तस्य नित्यस्यैकस्यानंशस्य सर्वगतस्य सर्वथा विचार्यमाणस्यासम्भवात् । नित्यं करोत्यर्थसामान्य
प्रत्यभिज्ञायमानत्वाच्छन्दवदिति चेत् , न, हेतोर्विरुद्धत्वात् , कथश्चिन्नित्यस्येष्टविरुद्धस्य साधनात्, सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात् , तदेवेदमिति पूर्वोत्तरपर्यायव्यापिन्येकत्र प्रत्ययस्योत्पत्तेः, पौर्वापर्यरहितस्य पूर्वापरप्रत्ययविषयत्वासम्भवात् । धर्मावेव पूर्वापरभूतौ, न धर्मसामान्यमिति चेत्, कथं तदेवेदमित्यभेदप्रतीतिः ? पूर्वापरस्वरूपयोरतीतवर्तमानयोस्तदित्यतीतपरामर्शिना स्मरणेनेदमिति वर्तमानोल्लेखिना प्रत्यक्षेण च विषयीक्रियमाणयोः परस्परं भेदात् । करोतिसामान्यादेकस्मात्तयोः कथश्चिद्भेदाभेदप्रतीतिरिति चेत्, सिद्धं तस्य कथञ्चिदनित्यत्वम् , अनित्यस्वधर्माव्यतिरेकात् । न ह्यनित्यादभिन्नं नित्यमेव युक्तमनित्यस्वात्मवत्, सर्वथा नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधाच । तदनित्यं सामान्यं, विशेषादेशाच्छन्दवत् । तत एवानेकं तद्वत् । करोतीति स्वप्रत्ययाविशेषादेकं करोतिसामान्यं सदिति स्वप्रत्ययाविशेषादेकसत्तासामान्यवदिति चेन्न,सर्वधा स्वप्रत्ययाविशेषस्यासिद्धत्वात्। प्रतिकरीत्यर्थव्यक्तिकरोतीति प्रत्ययस्य विशेषात् प्रतिसद्व्यक्तिसदितिप्रत्ययवत् । तद्यक्तिविषयो विशेषप्रत्यय इतिचेत्, तर्हि ता व्यक्तयः सामान्यात्सर्वथा यदि भिन्नाः प्रतिपाद्यन्ते तदा यौगमतप्रवेशो मीमांसकस्य । अथ कथञ्चिदभिन्नास्तदा सिद्धं सामान्यस्य विशेषप्रत्ययविषयत्वं विशेषप्रत्ययविषयेभ्यो विशेषेभ्यः कथञ्चिदभि
For Private And Personal Use Only