SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रतिपत्तुः प्रतीतेः । इष्टस्तादृशो नियोगो भावनास्वभावः शुद्धकार्यादिरूपस्यैव नियोगस्य निराकरणादिति चेत्, न, तस्यापि प्रधानभावार्पितस्य करोत्यर्थादिविशेषणस्य वाक्यार्थत्वोपपत्तेः । निरपेक्षस्य तु करोत्यर्थस्यापि वाक्यार्थत्वानुपपत्तेः । न च करोत्यर्थ एव वाक्यार्थ इति युक्तम्, यज्याद्यर्थस्यापि वाक्यार्थतयानुभवात् । करोतिसामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच्छब्दार्थत्वम्, " नित्याः शब्दार्थसम्बन्धा " इति वचनात् । न पुनर्यज्यादिक्रियाविशेषास्तेषामनित्यत्वाच्छब्दार्थत्वाऽवेदनात् । इति चेत्, न, यज्यादिक्रियासामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच्छब्दार्थत्वाविरोधात्, सर्वक्रियाव्यापित्वात्करोतिसामान्यं शब्दार्थ इति चेत्, तर्हि सत्तासामान्यं शब्दार्थोस्तु, करोतावपि तस्य सद्भावात् । महाक्रियासामान्यव्यवस्थितिरूपत्वात् । यथैव हि पचति पाकं करोति, यजते यागं करोतीति प्रतीतिस्तथा पचति पाचको भवति, यजते याजको भवति, करोतीति कारको भवतीत्यपि प्रत्ययोस्ति । ततः करोतीतरार्थव्यापित्वाद्भवत्यर्थस्यैव शब्दार्थत्वं युक्तमुत्पश्यामः । स्यान्मतं “ निर्व्यापारेपि वस्तुनि भवत्यर्थस्य प्रतीतेर्न क्रियास्वभावत्वं, निष्क्रियेषु गुणादिषु भवनाऽभावप्रसङ्गात् ” इति चेत्, न, करोत्यर्थेपि समानत्वात् । परिस्पन्दात्मकव्यापाररहितेपि करोत्यर्थस्य भावात्, तिष्ठति स्थानं करोतीति प्रतीतेः, गुणादिषु च करोत्यर्थाभावे सर्वथा कारकत्वायोगादवस्तुत्वप्रसक्तेः । तत एव करोत्यर्थो व्यापकः, सति सर्वत्र भावात् । अन्यथा तस्याऽकारकत्वेनावस्तुत्त्वात् सत्त्वविरोधात् । भवनक्रियेत्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *% *%
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy