________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षात्करणे नियोगस्याफलत्वप्रसङ्गात् । ततो बाध्यमानैव तत्प्रतीतिरिति । तदेतदसमञ्जसमालक्ष्यते, अन्यत्रापि समानत्वात् । प्रत्यक्षस्य हि प्रवर्त्तकत्वं प्रवृत्तिविषयोपदर्शकत्वमुच्यते । प्रवृत्तिविषयश्चार्थक्रियाकारी सलिलादिः । सा च तस्यार्थक्रियाकारिता भाविनी न साधनावभासिना वेदनेन साक्षात्कर्तुं शक्या तत्साक्षात्करणे प्रवृत्तिवैफल्यात् । ततोध्यक्षस्य प्रवर्त्तकत्वं बाध्यमानप्रतीतिकं कथमेवेति न शक्यं वक्तुम् । | यदि पुनरर्थक्रियाकारिताऽनागतापि साधनावभासिनि वेदने प्रतिभातैव - एकत्वाध्यवसायात् तदा शब्दादपि पुरुषस्य कार्यव्यापृतता तत एव प्रतिभातैवेति किं नानुमन्यते । तथा सति बुद्ध्यारूढोर्थः शब्दस्य स्यादिति चेत्तथापि प्रत्यक्षस्य बुद्ध्यध्यवसितोर्थः किन्न भवति । ततो निरालम्बनमेव प्रत्यक्षं न स्यात् । परमार्थतः प्रत्यक्षमपि न प्रवर्त्तकम्, स्वरूपस्य स्वतो गतेः संवेदनाद्वैतस्य वा सिद्धिरिति चेत् पुरुषाद्वैतस्य कुतो न सिद्धिः ? तस्य नित्यसर्वगतस्यैकस्य संवित्यऽभावादिति चेत्, क्षणिकनिरंशस्यैकस्य संवित्तिः किं कस्यचित्कदाचिदस्ति ? यतस्तत्सिद्धिरेव स्यात् । ततः पुरुषाद्वैतवत्संवेदनाद्वैतस्य सर्वथा व्यवस्थापयितुमशक्तेर्भेदवादे च प्रत्यक्षस्य प्रवर्त्तकत्वायोगाद्भिन्नाभिन्नात्मकं वस्तु प्रातीतिकमभ्युपगन्तव्यम्, विरोधादेश्चित्रज्ञानेनोत्सारितत्वात् । भेदस्याभेदस्य वा सांवृतत्वे सर्वथार्थक्रियाविरोधात् । तथा च शब्दात्कार्यव्यापृतताया व्यक्तिरूपेण भाविन्या अपि शक्तिरूपेण पुरुषस्य सतः कथञ्चिदभिन्नायाः शब्दज्ञाने तदैव प्रतिभासनेपि न नियोगो निष्फलः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir