________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्री है शब्दात् सा प्रतीतिरिति च न युक्तम् , तस्य बुद्ध्यर्थख्यापनत्वात् , सोऽपि हि शब्दो बुद्ध्यर्थमेवख्यापविवरणम् ॥ यति, एवं मया प्रतिपादितमेवं मया प्रतिपन्नमिति द्वयोरपि प्रतिपादकप्रतिपाद्ययोरध्यवसायात् । पौरुषेय
वचनाद्धि मयैवं तावत्प्रतिपन्नमस्य तु वक्तुरयमभिप्रायो भवतु मा वाभूदिति प्रतिपत्ताऽध्यवस्यति।अपौरु॥२४॥
ज्यादपि शब्दादेवमयमों मया प्रतिपन्नोऽस्य भवतु मा वा भूदिति वक्तव्यापारविषयो योऽर्थः पौरुषेयशब्दस्य यो वा बुद्धौ प्रकाशतेऽर्थः अपौरुषेयत्वाभिमतशब्दस्य तत्र प्रामाण्यं न पुनर्बाह्यार्थतत्त्वनिबन्धनम् । तदुक्तम् , “वक्तृव्यापारविषयो योऽर्थों बुद्धौ प्रकाशते।प्रामाण्यं तत्र शब्दस्य नार्थतत्वनिबन्धनम्॥१॥" इति वचनात् । ततो विवक्षारूढ एवार्थो वाक्यस्य, न पुनर्भावनेति प्रज्ञाकरः । सोपि न परीक्षकः, प्रत्यक्षादिव शब्दाद्वहिरर्थप्रतीतिसिद्धेः। यथैव हि प्रत्यक्षात्प्रतिपत्तुप्रणिधानसामग्रीसव्यपेक्षात्प्रत्यक्षार्थप्रतिपत्तिस्तथा सङ्केतसामग्रीसापेक्षादेव शब्दाच्छब्दार्थप्रतिपत्तिः सकलजनप्रसिद्धा, अन्यथा ततो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्त्ययोगात् । न चार्थवेदनादेवार्थे पुरुषस्यार्थिनः स्वयमेव प्रवृत्तः शब्दोऽप्रवर्तक इत्येव वक्तुं युक्तम्, | प्रत्यक्षादेरप्येवमप्रवर्तकत्वप्रसङ्गात्, तदर्थेऽपि सर्वस्याभिलापादेव प्रवृत्तेः । परम्परया प्रत्यक्षादि प्रवर्तकमिति चेत् , तथा वचनमपि प्रवर्तकमस्तु, विशेषाभावात् । यथा च प्रत्यक्षस्य सलिलादिरर्थः, तस्य तत्र प्रतीतेः, तथा वाक्यस्यभावना प्रेरणा वा, तस्यैव तत्र प्रतीतेरबाध्यमानत्वात् । नन्विदं कुर्विति वचनात्कार्ये व्यापारितत्वं पुरुषस्य नियुक्तत्वम्, न च कायें व्याप्ततावस्था भाविनी तेन साक्षात्कर्तुं शक्या, तत्सा
॥२४॥
For Private And Personal Use Only