SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir चित्स्वभावत्वे वा न प्रतिपादकसंवेद्यत्वं प्रतिपाद्यसुखादिवत् । तस्य तदुभयचित्स्वभावत्वे प्राश्निकादिसंवेद्यत्वविरोधस्तदुभयसुखादिवत् । सकलजनचित्स्वभावत्वे प्रतिपादकादिभावानुपपत्तिः, अविशेषात् । प्रतिपादकादीनामविद्योपकल्पितत्वाददोष इति चेत्, यैव प्रतिपादकस्याविद्या प्रतिपादकत्वोपकल्पिका सैव प्रतिपाद्यस्य प्राभिकादेश्चाविशिष्टा प्रतिपादकत्वमुपकल्पयेत्, प्रतिपाद्यस्य चाविद्या प्रतिपाद्यत्वोपकल्पनपरा प्रतिपादकादेरविशिष्टा प्रतिपाद्यत्वं परिकल्पयेत् , प्रतिपादकादीनामभेदात्तदविद्यानामभेदप्रसङ्गात् , भेदे वा प्रतिपादकादीनां भेदसिद्धिः, बिरुद्धधर्माध्यासात् । अनाद्यविद्योपकल्पित एव तदविद्यानां भेदो न पारमार्थिक इति चेत्, परमार्थतस्तभिन्नास्तदविद्या इति स एव प्रतिपादकादीनां सङ्करप्रसङ्गः। यदि पुनरविद्यापि प्रतिपादकादीनामविद्योपकल्पितत्वादेव न भेदाभेदविकल्पसहा नीरूपत्वादिति मतं, तदा परमार्थपथावतारिणः प्रतिपादकादय इति बलादायातम् , तदविद्यानामविद्योपकल्पितत्वे विद्यात्वविधेरवश्यम्भावित्वात् । तथा च प्रतिपादकादिभ्यो भिन्नमुपनिषद्वाक्यं सकृत्तत्संवेद्यत्वान्यथानुपपत्तेः इत्यचित्स्वभावं सिद्धं बहिर्वस्तु, तद्वद्घटादिवस्तुसिद्धिरिति न प्रतिभासाद्वैतव्यवस्था, प्रतिभास्यस्यापि सुप्रसिद्धत्वात्। प्रतिभाससमानाधिकरणता पुनः प्रतिभास्यस्य कथञ्चिङ्देऽपि न विरुद्ध्यते, घटःप्रतिभासत इति प्रतिभासविषयो भवतीत्युच्यते विषयविषयिणोरभेदोपचारात्, प्रस्थप्रमितं धान्यं प्रस्थ इति यथा । ततः सामानाधिकरण्यादुपचरितान्नानुपचरितैकत्वसिद्धिः। मुख्यं सामानाधिकरण्यं क सिद्धमिति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy