________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ १८ ॥
www.kobatirth.org
नादौ प्रवृत्तिरिति चेत्, कथमन्यपरिहारेण प्रवृत्तिर्न भवेत् ? परमब्रह्मणो विधिरेवान्यस्यानाद्यविद्योपकल्पितस्य नैरात्म्यादेः परिहार इति चेत्, कथमेवमन्यापोहवादिनोऽपि परापोहनमेव स्वरूपविधिर्न भवेत् ? तस्यान्यापोहवादविरोधान्नैवमिति चेत्, विधिवादिनोऽपि तथा विधिवादविरोधादन्यापोहाभ्युपगमो मा भूत् । परमार्थतोऽन्यापोहो विधिवादिना नैवाभ्युपगम्यते तस्य प्रतिभाससमानाधिकरणत्वेन प्रतिभासान्तः प्रविष्टत्वसिद्धेः परमपुरुषत्वात्, प्रतिभासस्वरूपवत् । तस्याप्रतिभासमानत्वे व्यवस्थानुपपत्तेरन्यथाऽतिप्रसङ्गात् । शब्दज्ञानेऽस्यानुमानज्ञाने चान्यापोहस्य प्रतिभासनेऽपि तत्समानाधिकरणतया प्रतिभासनान्न ततोऽन्यत्वम् । तस्य च शब्दानुमानज्ञानस्य प्रतिभासमात्रात्मकत्वान्नार्थान्तरत्वमिति चेत्, कथमिदानीमुपनिषद्वाक्यं प्रतिभासमात्रादन्यलिङ्गं वा यतस्तत्प्रतिपत्तिः प्रेक्षावतः स्यात् । तस्य परमब्रह्मविवर्त्तत्वाद्विवर्त्तस्य च विवर्त्तिनोऽभेदेन परिकल्पनात्ततस्तत्प्रतिपत्तिरिति चेत्, कथं तत्परिकल्पिताद्वाक्यालिङ्गाद्वा परमार्थपथावतारिणः परमब्रह्मणः प्रतिपत्तिः - परिकल्पिताद्धमादेः पारमार्थिकपावकादिप्रतिपत्तिप्रसङ्गात् । पारमार्थिकमेवोपनिषद्वाक्यं लिङ्गं च परमब्रह्मत्वेनेति चेत्, तर्हि यथा तत्पारमार्थिकं तथा साध्यसमं कथं पुरुषाद्वैतं व्यवस्थापयेत् ? यथा च प्रतिपाद्यजनस्य प्रसिद्धं न तथा पारमार्थिकं द्वैतप्रसङ्गात् । | इति कुतः परमार्थसिद्धिः । ततस्तामभ्युपगच्छता पारमार्थिकमुपनिषद्वाक्यं लिङ्गं च प्रतिपत्तव्यम् । तच्चाचित्स्वभावं, चित्स्वभावत्वे परसंवेद्यत्वविरोधात् प्रतिपादकचित्स्वभावत्वात्, तत्सुखादिवत् । प्रतिपाद्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
प्रथमः ॥
॥ १८ ॥