________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
5
अष्टसहस्री
विवरणम्॥
॥१७॥
खल्विदं ब्रह्म " त्यादिवचनमपि विधिमात्रप्रतिपादकमनुपालभ्यमस्तु तत एव । तथा च वेदान्त-18 परिच्छेदः वादसिद्धिः । तस्मान्न नियोगो वाक्यार्थः कस्यचित्प्रवृत्तिहेतुत्वाभावाद्विधिवत् । सर्वेषु च पक्षेषु प्रथमः॥ नियोगस्य प्रत्येकं विचार्यमाणस्यायोगान्न वाक्यार्थत्वमवतिष्ठते । तथा हि । न तावत्कार्य शुद्धं नियोग इति पक्षो घटते, प्रेरणानियोज्यवर्जितस्य नियोगस्यासम्भवात् । तस्मिन्नियोगसंज्ञाकरणे स्वकम्बलस्य कूर्दालिकेति नामान्तरकरणमात्रं स्यात् । न च तावता स्वेष्टसिद्धिः। शुद्धा प्रेरणा नियोग इत्यप्यनेनापास्तंनियोज्यफलरहितायाःप्रेरणायाःप्रलापमात्रत्वान्नियोगरूपतानुपपत्तेः। प्रेरणासहित कार्य नियोग इत्यप्यसम्भाव्यम्-नियोज्यविरहे नियोगविरोधात् । कार्यसहिता प्रेरणा नियोग इत्यप्यनेन निरस्तम् । कार्यस्यैवोपचारतःप्रवर्तकत्वं नियोग इत्यप्यसारम्-नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्तकत्वोपचारायोगात् । कदाचित्कचित्परमार्थतस्तस्य तथानुपलम्भाच्च । कार्यप्रेरणयोः सम्बन्धो नियोग इति वचनमसङ्गतम्-ततो भिन्नस्य सम्बन्धस्य सम्बन्धिनिरपेक्षस्य नियोगत्वाघटनात् । सम्बन्ध्यात्मनः सम्बन्धस्य नियोगत्वमित्यपि दुरन्वयम्-प्रेर्यमाणपुरुषनिरपेक्षयोः सम्बन्ध्यात्मनोरपि कार्यप्रेरणयोर्नियोगत्वानुपपत्तेः। तत्समुदायनियोगवादोप्यनेन प्रत्याख्यातः । कार्यप्रेरणाविनिर्मुक्तस्तु नियोगो न विधिवादमतिशेते । यत्पुनः स्वर्गकामः पुरुषोऽग्निहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयमारूढमात्मानं मन्यमानः प्रवर्त्तत इति यन्त्रारूढ। नियोगवचनं, तदपि न परमात्मवादप्रतिकूलम्-पुरुषाभिमानमात्रस्य नियोगत्ववचनात् , तस्य चाविद्यो- ॥१७॥
ACCARRC
For Private And Personal Use Only