________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
तस्य सर्वथा प्रवर्तकत्वात् । तेषां विपर्यासादप्रवर्तक इति चेत्, परेषामपि विपर्यासादप्रवर्तकोऽस्तु । शक्यं हि वक्तुं, प्राभाकरा विपर्यस्तत्वाच्छन्दनियोगात्प्रवर्त्तन्ते नेतरेतेषामविपर्यस्तत्वादिति । सौगतादयो विपर्यस्तास्तन्मतस्य प्रमाणवाधितत्वात् , न पुनःप्राभाकरा इत्यपि पक्षपातमात्रम्-तन्मतस्यापि प्रमाणबाधितत्वाविशेषात्। यथैव हि प्रतिक्षणविनश्वरसकलार्थकथनं प्रत्यक्षादिविरुद्धं तथा नियोक्तृनियोगतद्विषयादिभेदपरिकल्पनमपि, सर्वप्रमाणानां विधिविषयताव्यवस्थापनेन तद्बाधकत्वोपपत्तेः । यदि पुनरप्रवर्तकस्वभावः शब्दनियोगस्तदा सिद्ध एव तस्य प्रवृत्तिहेतुत्वायोगः, सच वाक्यार्थत्वाभावं साधयति । किश्च नियोगः फलरहितोवा फलसहितोवा? फलरहितश्चेत्, न ततः प्रेक्षावतांप्रवृत्तिःअप्रेक्षावत्त्वप्रसङ्गात्, प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत इति प्रसिद्धेश्च । प्रसिद्धचण्डनरपतिवचननियोगादफलादपि प्रवर्त्तनदर्शनाददोष इति चेन्न, तस्यापायपरिरक्षणफलत्वात् । तन्नियोगादप्रवर्त्तने तदाज्ञोल्लङ्घनकृतामपायोऽवश्यं सम्भवतीति। तर्हि वेदवचनादपि नियुक्तः प्रत्यवायपरिहाराय प्रवर्त्तताम्-“नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासये" ति वचनात् । कथमिदानी स्वर्गकाम इति वचनमवतिष्ठते-जुहुयाज्जुहोतु होतव्यमिति लिङ्लोट्तब्यप्रत्ययान्तनिर्देशमात्रादेव नियोगमात्रस्य सिद्धेस्तत एव च प्रवृत्तिसम्भवात् । यदि पुनः फलसहितो नियोग इति पक्षस्तदा फलार्थितैव प्रवर्तिका न नियोगः-तमन्तरेणापि फलार्थिनां प्रवृत्तिदर्शनात् । पुरुषवचनानियोगेऽयमुपालम्भो नापौरुषेयादग्निहोत्रादिवाक्यात्-तस्यानुपालम्भत्वादिति चेत्, “सर्वं वै
For Private And Personal Use Only