________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
अर्थसंग्रहः ।
षोमीयः सवनीय अनुवन्ध्यश्चति । तेच भिन्नदेशाः | अग्नीषोमीय औपवसथेाऽह्नि, सवनीयः सूत्याकाले, अमुवन्ध्यस्त्वन्ते । साद्यस्कोनाम सोमयागविशेषः । मचावाक्तत्वाज्जयोतिष्टोमविकार: । अतस्ते त्रयोपि साद्यस्केचोदकप्राप्ताः । तेषां तत्र साहिताम् श्रुतम् । सह पशूनालभेतेति । तच्च साहितं सवनीयदेशे । तस्य प्रधानप्रतासत्तेः । स्थानातिक्रम साम्याच्च ।
Acharya Shri Kailashsagarsuri Gyanmandir
सवनौयादिसहानुष्ठानाश्विनग्रहणादीनामपरिचयादित्यतस्तद्यञ्जयति तथाहीति । पशुयागांस्त्रीनाह अग्नीषोमीय इत्यादि । भिन्नदेशा ज्योतिष्टोमे विभिन्नकालकर्त्तव्याः कालभेदं दर्शयति अग्नीषोमीय इति । श्रपवसथ्ये ज्योतिष्टोमात् पूर्व्वस्मिन्नहनि । न्यायमालाप्येवमेव व्याख्यातवती । मूल्याकाले प्रातः सवने आश्विनग्रहणादूर्द्धमित्यपि न्यायमाला । अन्ते अवभृथादूर्द्धम् । प्रागुक्त' साद्यस्क' विद्वणोति साद्यस्क इति । अव्यक्तत्वात् अव्यक्तद्रव्य देवताकत्वात् । ज्योतिष्टोमविकार इति । अव्यक्तसोमयागमाचसा ज्योतिष्टोमविकारत्वादितिभावः । ते वय: अग्नीषोमीयसवनीयानुवन्ध्या: । चोदकप्राप्ता अतिदेशप्राप्ताः प्रकृतिवद्दिकृतिरिति न्यायादितिभावः । तेषाम् अग्नीषोमीयादीनाम् । तच साद्यस्के । साहित्यं एकस्मिन्नवसरे कर्त्तव्यत्वम् । श्रुतं श्रुतिवधितम् । श्रुतिमाह सर्हति । आलभेत आलभ्य यजेत । अत्र सहेतुपादानात् वैकृतविशेषेण प्राकृतदिनभेदी वाध्यते शरमयवर्हिषा कुशमयवर्हिरिव ।
नमु विकृतौ सहालम्भनमौपवसथ्ये अनि सूत्यादिने वा अवभृथादूई वेत्यत्राह तच्चेति । सवनीयदेशे सूत्याकाले सवनीयानुष्ठानावसरे । हेतुमाह वसेप्रति । Raat देशसेवार्थः । प्रधानप्रत्यासत्तेः प्रधानसा यागस सान्निध्यात् । प्रधानद्रव्य सोमसान्निध्याच्च । तथाच प्रकृतौ कालविशेषोपदेशेपि विकृतौ कालविशेषानिद्दशादनिद्दिष्टकालाङ्गसा प्रधानकालकर्त्तव्यताया श्रचितेन यागदिन एव कर्त्तव्यता न तु यागात् पूर्व्वदिने यागान्तेवेतिभावः । ननु सवनीयस्थाने
For Private And Personal