________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८८
न्यायप्रकाशः।
न च तदर्पणबुधानुष्ठाने प्रमाणाभावः । यत्करोषि यदशासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति स्मृतः । अस्यावाष्टकादिवत् प्रामाण्यादित्यन्यत्र विस्तरः।
क्वाहं मन्दमतिः केयं प्रक्रिया भट्टसम्मता। तस्मातेविलासोऽयं गोविन्दगुरुपादयोः ॥
ननु कर्मण्यनुष्ठीयमाने सत्यपि वैमुख्ये श्रुतत्वात् फलमवश्यम्भावि। अश्रुतफलजनकव्ये प्रमाणाभावादित्यापत्तिमपाकरीति न चेति ।
आपत्तिनिरासकं भगवडाक्यं प्रमाणमाइ यदिति । यत्करोषि यदाचरसि शास्... खतः प्राप्तं वा। मदर्पणं मयि घर्पितं यथा भवति एवं कुरुष्वे त्यर्थः । इदमुपलक्षणम् ।
युक्तः कर्मफलं त्यका शान्तिमाप्नोति नैष्ठिकीम् ।
प्रयुक्त: कामकारण फले सक्ती निबध्यते ॥ इत्यादि भगवडाक्यान्तरस्थापि प्रमाणत्वात् ।
ननु धर्मस्य वेदैकप्रमाणत्वमुक्तं तत्कथं धर्मनिर्णयायाधुना स्मृतिवचनमुपन्यस्य सि, तस्थाप्रामाण्यादित्यत पार पस्याश्चेति। स्मृतरित्यर्थः । अष्टकादियदिति । तथाच प्रथमाध्यायसीयपाद अष्टका: कर्तव्याः, गुरुरनुगन्तव्यः, तड़ागं खनितव्यम्, उपनयौत वृत्यादि प्रतौनां प्रामाण्य मप्रामाण्यं वेति संशये चोदनालक्षणोऽर्थों धर्म इति सूत्रेण धर्मस्य वेदमात्रमूलकत्वाभिधानात् समतौनां धर्मे प्रामाण्यं नास्तीति पूर्वपक्षयित्वा स्मृतीनां श्रुति. मूलकत्वात् मामाण्य मिति सिद्धान्तितम् ।
क्वाहमिति । तथाच भट्टसम्मतप्रक्रिया प्रतीव दुरुहलान्यादृशमन्दबुद्धेरणकोति भावः। तहि कथं भवता सा प्रक्रिया निष्पादितेत्यत पाय तस्मादिति । मादृशमन्दबुद्धीनामशक्यत्वात् गुरुगोविन्द चरणभक्तरेवायं विलास इति मन्तव्यम् । तथाच गुरुगोविन्द चरणभक्तिरेवैतन्यरूपेण परिणवा न पुनर्भत्कौशलमिति भावः। यतोऽयं गोविन्दभक्तरेव विलासस्तस्मादनेन यन्यरूपवाग्वापारण भगवान् सुतरामेव प्रीयता
For Private And Personal