________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
रागप्रात्यभावात्। रागतः प्राप्तस्यापि क्रत्वर्थलेन प्रतिषेधे तदनुष्ठानात् क्रतोवैगुण्येऽपि नानर्थोत्पत्तिः, यथा स्वस्त्युपगमनादिप्रतिषेधः । रागत: प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे निषिध्यमानस्थानर्थहेतुत्वमिति दिक। तसिद्ध निषेधानां पुरुषार्थानुबन्धिलम् ।
सर्वस्यापि वेदस्य पुरुषार्थानुबन्धिवं प्रकृतमनुसरामः ।
नेषां शास्त्रप्राप्त दानहीमादीनाम्। अनर्थ हेतुत्वाभावे हेतुमाह रागप्राप्तप्रभावादिति । तथाच प्रागुक्तान हेतुत्वानुगमकवाक्ये यच न विकल्प: प्रसन्यते तत्र निषिध्यमानस्यानर्थहेतुत्वमित्येतावन्मात्रीती दौचिती न ददातीत्यादिनिषिध्यमानदानादीनामपि विकल्पाभावादनर्थ हेतुत्वमापद्येत । प्राप्तिच रागतः प्रतिषेधश्च पुरुषार्थ इत्युपादाने तु न तेषामनर्थहेतुत्वापत्तिः तेषां रामप्राप्तत्वाभावात् प्रतिषेधस्य पुरुषार्थत्वाभावाच्च । नन्वेवं प्राप्तिक रागत इत्येवोच्चतां न पुन: प्रतिषेधश्च पुरुषार्थ इति । दीक्षितदानादौनां रागप्राप्तत्वाभावादेवानर्थहेतुता निराकरणादित्यत पाह रागप्राप्तस्यापोति। तदनुष्ठानात् क्रत्वर्थत या प्रतिषिध्यमानस्स रागप्राप्त सानुष्ठानात्। नानोत्पत्तिरिति । तथाच तदनुष्ठानात् क्रतोवैगुण्य मेवीत्पद्यते न पुनरनिष्टम्। एवञ्च यत्र न विकल्प: प्रसज्यते प्राप्तिश्च रागत इत्येतावन्मात्रीक्तो क्रत्वर्यतया प्रतिषिध्यमानस्य रागप्राप्तस्थानुष्ठानेऽप्यनर्थोत्पत्तिः प्रसज्येत । प्रविषेधश्च पुरुषार्थ इत्युक्तौ तु न तब तत्प्रसक्तिः । प्रतिषेधस्य तत्र कालर्थत्वादिति भावः ।
ननु कोऽयं रागप्राप्तस्य क्रत्वर्थतया प्रविषेध इत्यवाह यथेति । पच प्रतिषेधी यागाप्रतया प्रतिषेध इत्यर्थः। यागे ब्रह्मचर्यविधानात् ब्रह्मचर्ययस्य चाष्टाङ्गमैथुन निवृत्तिरूप. त्वात् । रागतः प्राप्तयेति । एतेन तदुभयदलनिवेशनिबन्धनं यत्रानर्थ हेतुत्वं फलित सदैवीपदर्शितम् । एतच्च विस्तरेणोक्तम् । यत्र प्रतिषेधः पुरुषार्थस्तत्र प्रतिषिध्यमानस्यानर्थहेतुत्वमित्येव नन्वनुगमकं द्रष्टव्यम् । निषेधानां पुरुषार्थानुबन्धित्वमुपसंहरति तसिद्ध'मिति । पुरुषार्थानुबन्धित्वं साक्षात्परम्परौदासीन्येन पुरुषार्थमयोजकत्वम् । - प्रागुतवेदभागेष्ववशिष्टस्यार्थवादस्ख पुरुषार्थानुबन्धित्वप्रतिपादनाय प्रकृतमनुसरति प्रकृतमिति । पतिविप्रकृष्टतया किं तत्प्रकृतमिति श्रीजिज्ञासापरिहाराय प्रवतस्वरूप सक्तं सर्वस्येत्यादिना । अनुसराम इति। पवशिष्टस्वार्थवादस्य पुरुषार्थानुवन्धित्वप्रतिपादनेन अनुगच्छाम इत्यर्थः।
For Private And Personal