________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
एवञ्च प्रकृतावेतत्याञ्चदश्यं प्रतिष्ठितम् ।
विकतौ च न यत्रास्ति साप्तदश्य पुन:श्रुतिः ॥ इति । न च वाक्यवैयर्थम् । अनारम्याधीतस्यैव साप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम प्राप्तस्य विशेषे नियमनम्। यथाहु:
सामान्यविधिरस्पष्टः संनियेत विशेषत: । इति । तमानारभ्यविधि: सामान्यविधिः । मित्रविन्दादिप्रकरणस्थस्तु विशेषविधिरित्यास्तां तावत् प्रकृतमनुसरामः । तसिद्धं वाक्यादङ्गत्वम्।
एवञ्चेति । साप्तदश्यविधेर्मिविन्दादिमात्रविकृतिविषयत्वे सतीत्यर्थः । एतत् पाञ्चदश्यं प्रकृतावेव प्रतिष्ठितम् । न केवलं प्रकृतावेव विकृतावपि कुत्रचित् स्यादित्याह विकृतौ चेति। यत्र विक्कतौ साप्त दश्यस्य पुनः श्रुति: पुनर्विधानं नास्ति तथाविधविकतौ चेत्यर्थः । ननु यदि साप्तदश्य श्रुतिः प्रत्यक्ष श्रुतसाप्तदश्यासु मित्रविन्दादिविकतिष्वे वान्वेति न विकृत्यन्तरे तर्हि सप्तदश सामिधेनौरनुब्रूयादिति सामान्यत: साप्तदग्यविधायकवाक्यस्य वैयर्थं स्यात् । मिन विन्दादिषु प्रत्यक्ष श्रुत्यैव तत्प्रारित्याशङ्कां परिहरति न चेति । उपसंहारात् मित्रविन्दादिविशेषनिष्ठत्वेन नियमनात् ।
उपसंहारपदार्थस्य तद्रूपत्वं प्रतिपादयति उपसंहारो नामेति । प्राप्तस्य सामान्यतः प्राप्तस्य । विशेष नियमनं विशेषनिष्ठत्वेन सोचनम् ।
सामान्य प्राप्तम्य विशेषनिष्ठत्वेनोपसंहारे न सामान्य वाक्य वैयर्थं, तस्य रीतिसिद्धत्वादिति दर्शयति । यथाहुरिति । सामान्धेति । अस्पष्टः अव्यक्त विषयः । संहियेत उपसंहियेत विशेषनिष्ठत्वेन नियम्येतेति यावत् । विशेषत: विशेषविधिना। अत्र कः सामान्यविधिः को वा विशेषविधिरित्यवाह तत्रेति। अनारभ्येति । सप्तदश सामिधेनौरनुब्रूयादिति विधिरित्यर्थः । प्रकृतं वाक्यस्याङ्गतायां प्रमा गत्वम्। उपसंहरति तमिद्धमिति ।
For Private And Personal