________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पर्थसंहः । प्रतिपाद्यते । तस्य कर्तव्यत्वसम्भवात् प्रादित्यविषयकानौक्षणसङ्कल्पेन भावयेदिति वाक्यार्थः ।
तत्र भाव्याकाङ्क्षायामेतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यतयान्वेति। एवञ्च पूर्वोत्तरवाक्ययोरेकवाक्यत्व निर्बहत्येव ।
मुख्यत्वं सर्ववं व पर्युदास लक्षणेति सिद्धान्तः। साच मुख्यार्थवाधादात्रीयमाणा न दूषणावहा। नसा अनौक्षणसङ्कल्पसा कर्त्तव्यत्वसम्भवादिति। भावपदार्थत्वे नेतिभावः । इति वाक्यार्थ तानेन सम्बन्धः। तब वाकार्थे । भाव्याकाचायां किं भावयेदिति फलाकाकायाम्। एतावतेति। उक्त व्रतजातेनेतार्थः । ह प्रसिद्धौ। एनसा पापेन। वियुक्तीरहितः । एवञ्चेति। नेक्षेतेतादिवाक्यस्यानौक्षणसङ्कल्पपरत्वे सतीतार्थः । पूर्वोत्तरवाक्ययोः तसा ब्रतमिति नेक्षेतेति वाकायोः। नेतेति एतावता हैनसेति वाकायोश्च। एकवाकात्वमेकतात्पर्यकत्वम्। निर्बहति निष्पद्यते । नेतेतवाद निषेधपरत्वं तव ब्रतत्वकीर्तनफलकीर्तनयोरसामञ्जस्यापत्तेरितिभावः। अतएव मनुनापि चतुर्थाध्याये ।
अतोऽन्यतमया वृत्त्या जीवंश्च स्नातकोदिजः ।
खग्यायुष्ययशसानि व्रतानीमानि धारयेत् ॥ इतापक्रम्य नेक्षेतीद्यन्तमादितामित्यादिगर्भाणि नत्र पदघटिताघटितानि वहूनि वाकमान्यभिधायोपसंहृतम् ।
अनेन विप्रो उत्तेन वर्तयन् बेदशास्त्रवित् ।
व्यपेतकल्मषी नित्य ब्रह्मलोके महीयते इति ॥ एतस्मादुपक्रमीपसंहारदर्शनात् ऋतुप्रकरणवहि तत्वावधारणात् क्रत्वङ्गत्वमपि म शानीयम्। तदुक्त पार्थसारथिमिथैश्चतुर्थाध्यायप्रथमपाद।
उपक्रम श्रुतं कर्मवाचि व्रतपदं यतः । वदन्वयवलात् कर्मविशेषोऽतीऽत्र पोद्यते ॥
For Private And Personal