________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
परिभाषाभाष्यवृत्त्योः
२७. क.-स्थाल्यामनुद्धृत्य स्थाल्या सह चरुमुद्रास्य आसादयति । चरोर पि] पृथुत्वात्' आद्रः प्रथस्नुः' इत्यविकृतो मन्त्रः ॥
ह.सहैव स्थाल्या आसादयेदित्यर्थः । अयं चार्थो न्यायप्राप्त एवोपदिश्यते । कथम् ? अधिश्रितस्य हविषो यः पूर्वभागः स एवावदानकाले पूर्वार्ध इत्यभिधीयते । यदि चरुरुद्धियेत पूर्वार्धविपर्यासम्स्यादित्य नुढत्येत्युक्तम् । अधिश्रयणादि च पूर्वार्धदेशलक्षणं मन्यमान आचार्योभिहितवान् ‘अपर्यावर्तयन्पुरोडाशमुद्रास्य' इति । अनश्च धाना अपि सकपाला उद्वाम्या इति सिद्धम् । प्रथनं श्लक्ष्णीकरणं उल्कैस्तपनं तण्डुलेवगागध्यूहनं अङ्गागधिवर्तनं च चरुस्थाल्यामर्थलोपान्नक्रियन्ते, दृष्ट संस्कारत्वान् । 'अविदहन्त अपयत' इति च क्रियते. आनीध्रप्रैषार्थत्वात् । उद्वासनमन्त्रश्चनोयने, पच्यमानस्य चगेः पृथुता जायते इति । विहितस्य प्रथनस्याभावान् ‘आद्रो भुवनस्य ' इत्यूहमन्ये वर्णयन्ति ॥
२८. क.-दर्शपूर्णमासयोस्सामिधेन्यः अग्निसमिन्धनार्था ऋचः 'त्रिः प्रथमामन्वाह । त्रिरुत्तमाम् ' इत्यभ्यस्ताभ्यां प्रथमोनमाभ्यां सह पञ्चदश । बहुयाजिनोपि पञ्चपश विकल्पेन लभ्यन्ते ॥
ह.-समिन्धनार्था ऋचस्सामिधेन्यस्ताः पञ्चदश दर्शपूर्णमासयोर्भवन्ति । अनारभ्य शाखान्तरे सामिधेनीनां
ख-रपृथक्त्वात्.
For Private and Personal Use Only