________________
Shri Mahavir Jain Aradhana Kendra
४६
परिभाषाभाष्यवृत्त्योः
१४. क - मन्त्रवता मन्त्रेण प्रोक्षितेनाभिमृष्टेन गृहीतेन वा सुवादिना नात्मानमभिपरिहरेत् । अथवा मन्त्रवता मन्त्रिणा यज्ञाङ्गेनात्मानमृत्विजं नाभिपरिहरेत् । खुवादीनां 'अन्तराणि इत्यवहिर्भावेपि सिद्धे, पत्नीयजमानौ मन्त्रोच्चारणामन्त्रवन्तौ समवाये तौ न बहिः कुर्यात्, अभ्यन्तरौ
स्याताम् ॥
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
"
6
ह.—मन्त्रेण संस्कृतं मन्त्रवत् । मन्त्रवता तेनात्मानं न वेष्टयेदित्यर्थः । अन्तराणि यज्ञाङ्गानि इत्येव सिढे वचनं मन्त्रेणासंस्कृताङ्गस्य हस्तस्या'त्मवेष्टनेपि न दोष इति ख्याप
नार्थम् ॥
2
१५. क - प्राकू पुरस्तात्, उदकू उत्तरतः, अपवर्गः परिसमाप्तिर्येषां कर्मणां तानि प्रागपवर्गाण्युदगपवर्गाणि करोति । देवानाभिमानि देवानि कर्माणि । दक्षिणस्य बाहोरधस्तात्सव्यबाहोरुपरि न्यस्तं कार्पासं सूत्रं यस्य स यज्ञोपवीती । अध्वखदिर्यज्ञोपवीती भूत्वा प्रदक्षिणं देवानि कर्माणि प्रागपवर्गायुगपवर्गाणि वा करोति, यथा परिस्तरणपरिषेचने । येषां प्रागपवर्गोदगपवर्गप्रदक्षिणत्वासम्भवस्तानि यज्ञोपवीती कुर्या -
तू ॥
ह. - अपवर्गः परिसमाप्तिः । प्राक् अपवर्गः येषां तानि प्रागपवर्गाणि । उदक् अपवर्गो येषां तान्युदगपवर्गाणि । यज्ञार्थI मुपवीतं, ' अजिनं वासो वा इति ब्राह्मणे व्याख्यातम् । देवा देवता येषां तानि देवानि । यत्कर्म दैवं पित्रचकर्मणो तत्रापि
1
क - हस्तगृहीतस्या.
For Private and Personal Use Only