________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः खण्डः.
ह.-दक्षिणासु वक्ष्यमाणस्य समुच्चयस्यायमपवादः । संख्यांसु निर्दिष्टासु दक्षिणाभूतानां द्रव्याणां विकल्प इत्यर्थः । यथा 'सप्त एकविंशतिः षष्टिश्शतं , 'एका देया षड् देया , इति च ॥
८. क-क्रये सोमक्रये, 'हिरण्येन क्रीणाति , इत्यादिना द्रव्याणां समुच्चयः । परिक्रये ऋत्विग्भ्यो दक्षिणादाने, ‘मिथुनौ गावौ ददाति । ८ वासो ददाति ' इत्यादीनां समुचयो भवति । संस्कारो यजमानदीक्षादि । तत्र वाससा दीक्षयति । मेखलया दीक्षयति' इत्यादीनां समुच्चयः ॥
___ ह.-क्रयः सोमक्रयः तत्र अजाहिरण्यादीनां समुच्चयः। परिक्रयो दक्षिणादानम् । तत्र बहूनां द्रव्याणां विनियुक्तानां समुच्चयः, यथा त्रैधातवीयायां हिरण्यं ददाति ' इति । संस्कारः दीक्षितसंस्कारः । तत्र दण्डमेखलादीनां समुच्चयः ॥
९. क-रुद्रप्रधानं कर्म रौद्रं । रक्ष:प्रधानं कर्म राक्षसं । निऋतिप्रधानं कर्म नैऋतं । पितृप्रधानं कर्म पैतृकं । एतानि कर्माणि च्छेदनादीनि च कृत्वाऽपामालभ्भः कर्तव्यः । चकारात् स्मार्तमपि केशाद्यालम्भेऽपामुपस्पर्शनम् ॥
ह.-रुद्रो देवता यस्य तद्रौद्रम् । एवं राक्षसादयः । छेदनं द्वैधीकरणं । भेदनं विदारणं । [आत्माभिमर्मनं, आस्मोपकारकं कर्म । ] रुद्रोपकारकं कृत्वोदकस्पर्शनं कार्य । यथा 'यो भूतानामधिपतिः । । । रौद्रेणानीकेन ' इत्यत्र . नोपस्पर्शनम् , अनीकविशेषणत्वात् । · रक्षसां भागधेयम्' इत्यत्रोपस्पर्शनं कर्तव्यम् । : तुषैः फलीकरणैर्दवहविर्यक्षेभ्यो
For Private and Personal Use Only