________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः. ह.-'रथशब्देन महेन्द्रस्य स्तोत्रमुपाकरोति' । 'दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्र मिति । तौ च मन्त्रौ न भवत इत्यर्थः । मन्त्रत्वप्रसङ्गाभावेपि मन्त्रस्य स्थानापच्या मन्त्रधर्मप्राप्तचाशङ्कानिरासायायमारम्भः । अनयोः प्रवरादिवदुपांशुत्वादिधर्मो न भवतीति ख्यापनार्थ पृथगुपदेशः ॥
४०. क.-स्वाध्यायो ग्रहणार्थमध्ययनं प्रसिद्धम् । न कर्मणि कर्मप्रयोगे । अर्थान्तरत्वात् । तत्र शिष्यस्य ग्रहणधारणं प्रयोजनम् । इहत्वभिधेयार्थप्रकाश क त्वम् । अतः कर्मणि नानध्ययनप्रसङ्गः । अर्थान्तरत्वादेव अन्येप्यध्ययनधर्माः प्रणवादयो न
ह.-वेदस्य ग्रहणार्थ गृहीतस्य च धारणार्थं च यदच्चारणम् तत्स्वाध्याय इत्युच्यते । अनध्याय अध्ययननिषेधः स्वाध्याय एव भवति, न कर्मणि । अर्थः प्रयोजनम् । अर्थादन्यत् अर्थान्तरम् । तस्य भावोर्थान्तरत्वम् । (“ विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ इति श्रोत्रियसंस्काराध्ययनाध्यापन विधेः । कर्मसु प्रतिषेधोऽर्थान्तरम् । ) तस्मात् प्रयोजनान्तरवादित्यर्थः । स्वाध्यायस्य वेदग्रहणं तद्वारणं वा प्रयोजनम् । कर्ममन्त्राणां त्वर्थनिर्वत्तिः । हेतुवचनं कर्मण्यपि प्रयोजनान्यत्वे अध्ययनप्रतिषेधार्थम् । यत्तु धर्मशास्त्रे वचनं, अमावास्यायामध्ययनविधिप्रतिषेधार्थम् । यद्वा-अमावास्यादिषु मन्त्राणाम [न]
स्थानापन्नत्वमत्या. श्रोत्रियसंस्काराध्ययनाध्यायविधेः; श्रोत्रियसंस्थाध्ययनाध्यायविधेः; इति च पाठी
दृश्येते. अमावास्यादिषु न. [इति कपुस्तके
For Private and Personal Use Only