________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
परिभाषाभाष्यवृत्त्योः. मन्त्रब्राह्मणे यज्ञस्य प्रमाणं । इदं च प्रमाणं शास्त्राख्यं प्रत्यक्षम्। कथमप्रत्यक्षम्य यः पुनः पुरुषप्रणीतो ग्रन्यो विस्तरणाय तदनुमान [नं] प [प्रत्य] क्षेस्यति ॥ अनाहुः-देवतोहेशेन द्रव्यत्यागात्मकेषु होमेषु भूतेषु “ सक्तुभिर्जुहोति । उन्नेता जुहोति । अञ्जलिना जुहोति । पदे जुहोति" इति येणू यागेल एतानि विशेषाकारणविहितानि तेषु तानि स्युः । येवेव तानि न विहितानि तेषु विहितेषु 'चोद्यमाने' इत्यादिभिस्सूत्रराज्यादीनि साधनानि विधाय प्रसङ्गात्पात्राणां धारणे तेषां प्रतितन्त्र संस्कारे उपदिष्टे इयमाशङ्का । द्रव्यकारकदेवताकारकसाध्येपू यागेषु द्रव्यकारकाणि सामान्यविशेषसाधनानि यागान्साधयन्ते । केनोपलभ्यन्ते देवताः, तत्र कस्य यागस्य केन केन रूपेण यागे देवतोपकरोतीति न ज्ञायत इत्यत आह-मन्त्रद्राह्मणे यज्ञस्य प्रमाणमिति । साङ्गो यज्ञ: प्रमीयते ज्ञायते येन परिच्छिद्यते तस्य तत्प्रमाणं । मन्त्रब्राह्मणाभ्यां हि साङ्गोपाङ्गो यज्ञ: प्रमीयते । ब्राह्मणवाक्यस्तावत् 'आगेयमष्टाकपालं , इत्येवमादिभिः धात्रे पुरोडाशं द्वादशकपालम्' इत्येवमादिभिश्च द्रव्यदेवताविशिष्टो द्रव्यदेवतासाध्योऽभिधीयते । देवता तद्धितेन चतुर्थ्यां च । मान्नवर्णिकदेवताविधिरपि । “येन कर्मणेर्सेत्तत्र होतव्याः" इति अभ्यातानमन्त्रविशिष्टा अभ्यातानमन्त्रसाधका होमा विधीयन्ते । अग्निभूतानामित्यनुवाकस्थानां मन्त्राणामभ्यातान इति संज्ञा । तेभ्याताना मन्त्रास्तान होमान् साधयेयुः । यदि तत्प्रकाशिता अमीन्द्रादयस्तेषां होमानां देवतास्युः । अनुष्ठानकाले होमानामपेक्षिताङ्गभूतदेवताप्रकाशनात् । न ह्यन्यथाभ्यातानानां मन्त्राणां होमसाधनत्वं । देवता अपि देवतोद्देशेन द्रव्यत्यागा
For Private and Personal Use Only