________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहयग्रीवाय नमः.
आपस्तम्बपरिभाषासूत्रस्य कपर्दिस्वामिभाष्यम् .. हरदत्ताचार्यवृत्तिश्च.
१.क-व्याख्यानं नाम शब्दप्रतिपादितस्यार्थस्य न्यायलब्धार्थस्वरूपकथनमस्मादयमों लभ्यत इति । यज्ञशब्देन साङ्गोपाङ्गोभिधीयते । स तु यज्ञो देवतोद्देशेन द्रव्यत्यागात्मकः याग इति क्रियाविशेषः । स हि निश्शेयसाय चोदितः । अन्ये जपादयो निश्रेयसाय विहिताः । तेपि यज्ञव्याख्यानेनैव व्याख्याताः । स तु यज्ञोऽनेकशाखापठितोऽनेकशास्त्रापेक्षोऽनेक. ......................... पेक्षः प्रकृतिविकृत्यात्मकः अव्याख्यातोनष्ठातूमशक्यत्वादश्रेयस्करत्वाच विस्तरेण स्पष्टो व्याख्यायते। तदिदं व्याख्यानं सर्वकर्म(विशेषत्वादादावेव प्राप्तं सदंते कृतं कथन्नु नामाधिकारनिरूपणादि यथासंभवमाचारगृह्यकर्मस्वपि [प्राप्तं] स्या [दित्येवमर्थ ॥
ह.-अत्रायमारम्भहेतुः नित्ययज्ञकिया पुरुषस्य श्रेयोभिव्यनक्ति । तस्यैवाक्रिया प्रत्यवायं संपादयति । ऋणश्रुतेः, अक्रियायाश्च प्रायश्चित्तविधानात् । येचान्ये आश्रमा ऊर्ध्व
For Private and Personal Use Only