________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ २॥
@fo] 9 & Ex + 59 E&XDĐ [E]+z+* D
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकस्वरस्फुरदनेकपंकेरुहं | सरोवरमनाविलोज्ज्वलजलं विलासोचितं ॥ अहारि विधिना परं सलिलदुग्धयोर्व्यक्ति — गुणस्तु तव सुस्थितस्तदिह संपदः पुष्कलाः ॥ ४ ॥ विश्वं लोकमहर्मणे स्वकिरणैरुद्योत| यस्यन्वहं । बिभ्राणः सकलग्रहाधिपतितां तेजस्विनामग्रणीः ॥ त्वं चेत्कोमलकेलिकाननमथो बब्बूलवृक्षादिकान् | कामं तुल्यतयैव तापयसि ते कामौचितीं ब्रूमहे ॥ ५ ॥ श्रीचंदनद्रुम शिवानि भवंतु तुभ्यं । निंबोऽपि यन्निजसो विहितोंतिकस्थः ॥ ये प्रोन्नता गुणभृतः किल निंदनीयं । ते कुर्वते निजसमं त्रिलंबितेन ॥ ६ ॥ अपसर भ्रमर त्वमितो यदा - यतिशुभाय न ते सुरभिग्रहः ॥ कुटिलकंटक कोटिभिरावृता । मृतिमियं खलु केतकी दास्यति ॥ ७ ॥ तारस्वरेण परभृत । निगदसि मध्येव कारणं तत्र ॥ अथ तर्हि तत्र महिमा | विना वसंतं यदि ब्रूयाः ॥ ८ ॥ परिमलनिलय समुज्ज्वल । गुणाढ्यघनसार का प्रकृतिरेषा ॥ बाह्याभ्यंतरमलिनं । यत्तिष्टसि नो विनेंगालं ॥ ९ ॥
तनोति तव विभ्रमं मणिमनोहरा मुद्रिका । त्यज॑स्त्वमपि तां कथं कर न लज्जसे सांप्रतं ॥ इयं तु गुणसुंदरी यदुपसंगिनी भाविनी । तमेव खलु भूषयिष्यति विचारय स्वात्मना ॥ १० ॥ आकारेण
For Private and Personal Use Only
0600100[0]000+
शतकम्
॥ २ ॥