________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
अन्योक्तिमुक्तावली। विज्ञातनिःशेषपदार्थसाथै प्रबर्ह बैहिर्मुखनाथपूज्यम् । सुवर्णवर्ण जिनवर्धमानं गिरीमधीशं स्मृतिमानदोऽहम् ॥ २ ॥
अथ चित्रप्रक्रमः । तत्रादौ सप्तदशचित्रगर्भिताष्टादशारचक्रबन्धचित्रेण परमगुरुभट्टारकश्रीविजयानन्दसूरीश्वराणां स्तुतिमाह
दक्षलक्षक्षमः सुश्रीजयाय यतिपुंगव । वल्गुभाभारवन्नित्यं भव क्षिप्तभवश्रम ॥ ३ ॥
इति कलशः ॥ १ ॥ दयावन्भगवन्भाविलोककोकखगोपम । महासौख्यं सतां दद्याः पुण्यविष्टरवारिद ॥ ४ ॥
धनुः ॥ २॥ दमवंस्त्वं गतव्याज जनानां सकलामद । दवतुल्य मकान्तारे तारं यच्छ शिवं दमम् ॥ ५ ॥
शक्तिः ॥ ३ ॥ इतोऽष्टादशारचक्रवन्धचित्रस्यावचूरिः। दक्षेति। हे यतिश्रेष्ठ, हे मनोहरप्रभासमूहह्वन् , हे निरस्तसंसारायास, त्वं मम जयाय भव । कथम् । नित्यम् । कीदृशस्त्वम् । दक्षाणां लक्षाणि दक्षलक्षाणि तेषु क्षमः समर्थः अतिचातुर्यवत्त्वात्, यद्वा दक्षलक्षवक्षमा यस्य, अथवा दक्षलक्षः क्षमो युक्तः दक्षलक्षक्षमः । 'परिपाट्यां क्षमं शक्ते हिते युक्ते क्षमावति' इति हैमानेकार्थकोशः । पुनः कीदृशस्त्वम् । सु शोभना श्रीः शोभा लक्ष्मीर्वा यस्य सः॥ ३॥ कलशः॥१॥ हे कृपावन् , हे ज्ञानवन् , भावस्तुरीयो धर्मः स विद्यते येषां ते भाविनस्ते च ते लोकाश्च त एव चक्रवाकास्तेषु सूर्यस्येव उपमा यस्य तत्संबुद्धिः, त्वं साधूनां महच्च तत्सौख्यं च महासौख्यं दद्याः । कीदृशस्त्वम् । पुण्यमेव विष्टरो वृक्षस्तस्मिन् वारि ददातीति वारिदो मेघः । 'वृक्षासनयोर्विष्टरः' इति निपातितः ॥ ४ ॥ धनुः ॥२॥ हे गुरो, त्वं जनानां निरुपद्रवं दमं उपशमं यच्छ देहि । कथम् । तारं यथा भवति तथा । हे दमवन्,
१. विज्ञातो निःशेषेण पदार्थानां सार्थः समूहो येन स तम् ; एतेन ज्ञानातिशयः. २. बहिरग्निर्मुखं येषां ते बर्हिर्मुखा देवाः प्रबर्हाः प्रकृष्टाश्च ते बहिर्मुखाश्च प्रबहबहिर्मुखाः तेषां नाथाः स्वामिनश्चतुःषष्टीन्द्राः प्रबर्हबहिर्मुखनाथाः तैः पूज्यम्. एतेन पूजातिशयः. ३. जयति रागद्वेषाधरीन्वशीकरोतीति जिनः जिनश्चासौ वर्धमानश्च तम्. एतेनापायागमातिशयः, ४. गिरामधीशमित्यत्र वचनातिशयः । अस्मिन्पद्ये चत्वारोऽतिशयाः सूचयांचक्रिरे.
For Private And Personal Use Only