SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४८ www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir आरूढवान्निजकुटुम्बयुतोऽध्वनीन स्तत्कर्णधार कुरु यत्सदृशं कुलस्य ॥ ५४ ॥ वंशः प्रांशुरसौ घुणक्षतमयो जीर्णा वरत्रा इमाः कीलाः कुण्ठतया विशन्ति न महीमाहन्यमाना अपि । आरोहव्यवसायसाहसमिदं शैलूष संत्यज्यतां दूरे श्रीर्निकटे कृतान्तमहिषयैवेयघण्टारवः || ५५ ॥ मौलिः खर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ तद्भृत्याः किल कञ्चुकिप्रभृतयो देवेति विज्ञाप्यसे । इत्थं कल्पनया कुशीलवनृपाहंकारदा वृथा नृत्यान्ते भवतो भविष्यति मषीमात्रावशेषं वपुः ॥ ५६ ॥ अमी तिलास्तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः । द्वेषोऽभविष्यद्यदमीषु तत्रस्तदा न जाने किमिवाकरिप्यः ॥ ५७ ॥ ari नैष तनूविवर्तनगतिं गृह्णाति साचिस्मित स्मेरैर्दृग्वलनैरमुप्य न मनाक् चेतः परावर्तते । हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्नीयतां वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ५८ ॥ अमरसरोवर ठाणं माणं लहिऊण झय वडाडोव । नियवंस मुवरिच्छाया न कया तह कीस धडहडसी ॥ ५९ ॥ श्रतः काञ्चनलेपगोपितबहिस्ताम्राकृतिः सर्वतो मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि । ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तेऽधुना नान्तस्तत्त्वविचारणाप्रणयिनो लोका बहिर्बुद्धयः ॥ ६० ॥ न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ । कस्तत्र भवतः पान्थ कूपेऽम्बुग्रहणादरः ॥ ६१ ॥ तम एव हि जानाति नीतिं नान्यतरो जनः । दीपशत्रुदये जाते तलमाश्रित्य तिष्ठति ॥ ६२ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy