________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
अथ भूर्जस्य । दौर्जन्यमात्मनि परं प्रथितं विधात्रा __ भूर्जद्रुमस्य विफलत्वसमर्पणेन । किं वर्मभिर्निशितशस्त्रशतावकृतै__राशां न पूरयति सोऽर्थिपरम्पराणाम् ॥ १६८ ॥ कुर्वन्तु नाम जनतोपकृति प्रसून__च्छायाफलैरविकलैः सुलभैर्दुमास्ते । सोढास्तु कर्तनरुजः पररक्षणार्थमेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥
अथाश्वत्थस्य । वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः । वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥
अथ न्यग्रोधान्योक्तयः। विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् । जल्पोऽप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली ___ पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलर्द्वि किमन्यत् ॥ १७१ ॥ न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
बीजान्यकुरगोचराणि कतिचिसिद्धयन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नति यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२॥
रुद्धा स्वपल्लवैर्योम मूलैस्तु वडवामुखम् । रे न्यग्रोध फलं हीनं ददानः किं न लजसे ॥ १७३ ॥ महातरुर्वा भवति समूलो वा विनश्यति ।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥ १. 'यामध्वन्यजनः' इत्यपि वा पाठः.
For Private And Personal Use Only