________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
खगात्पञ्चाक्षतिर्यश्चः परिच्छेदे तृतीयके । त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥ पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे । जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥ सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे। अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥
अथ प्रतिद्वारवृत्तानि। तत्रादिमपरिच्छेदे सुबोधार्थ विशेषतः । वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥ सूर्यस्यान्योक्तयः पूर्व सामान्येन्दुसदुक्तयः । वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥ द्वितीया द्विजराजोक्ती राकारात्रिकरोक्तयः । शनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ।। ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः । सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥ प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिध्रुवोक्तयः । कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ।। अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः । तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति । विकासमाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥ रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६ ॥ खद्योतो द्योतते तावद्यावन्नोदयते शशिः ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ३७ ॥ १. 'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥' इत्यपि पाठान्तरम्.
For Private And Personal Use Only