________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुत्य र्थः, आशब्दो मर्यादाभिविधिवाची, मर्यादायामाकाशे भवन्ति भावाः स्वात्मनि च, तत्संयोगेऽपि स्वभाव एवावतिष्ठन्ते नाकाशभावमेव हारि.वृत्तौ / यान्ति, अभिविधौ तु सर्वभावव्यापनादाकाश, सर्वात्मसंयोगादिति भावः, शेष धर्मास्तिकायवत् , तथा जीवति जीविष्यति जीवितवान् द्रव्याणि तत्क्रमच // 42 // जीवः, शेषं पूर्ववत्, तथा पूरणगलनधर्माणः पुद्गलाः त एवास्तिकायः पुदलान्तिकाय इत्यनेन सावयवानेक प्रदेशिकस्कन्धग्रहोऽप्यव गन्तव्यः, तथाऽद्धत्ययं कालवचन: स एव निरंशत्वादतीतानागतयोविनिष्टानुत्पन्नत्वेनासत्त्वात्समयः, समूहाभाव इत्यर्थः, आवलिकादयः | सन्तीति चेत्, न, तेषां व्यवहारमात्रतयैव शब्दात् , तथाहि-नानेकपरमाणु निर्वृत्तस्कन्धसमूहवत् आवलिकादिषु समयसमूह इति / आह-एषां कथमस्तित्वमवगम्यते ? इति, अत्रोच्यते, प्रमाणात , तच्चे प्रमाण-इइ गतिः स्थितिश्व सकल लोकप्रसिद्धा कार्य वर्तते, कार्य च परिणामा-1 1 पेक्षाकारणायत्तात्मलाभं वर्तते, घटादिकार्येषु तथा दर्शनात् , तथाच मृत्तिण्डभावेऽपि दिगदेशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न घटी। भवति, यदि स्यान्मृत्पिण्डमात्रादेव स्यात् , न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपारिणामिककारणभावेऽपि न धर्मास्तिकायाख्यापेक्षाकारणमन्तरेण भवत एव, यतश्च भावो दृश्यते अतस्तत्सत्ता गम्यत इति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्यपष्टम्भकः अधर्मास्तिकायः मत्स्यानामिव मेदिनी, विवक्षया जलं वा, प्रयोगगतिस्थिती अपेक्षाकारणवत्यौ कार्यत्वाद् घटवत्, विपक्षत्रैलोक्यशुपिरमभावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् / आह-आकाशा-14 स्तिकायसत्ता कथमवगम्यते !, उच्यते, अवगाहदर्शनात्तथा चोक्तं-- अवगाहलक्षणमाकाश' मिति, आह-जीवास्तिकायसत्ता कथमबग // 42 म्यते ?, उच्यते, अवग्रहादीनां स्वसंवेदनसिद्धत्वात् , पुद्गलास्तिकायसत्ताऽनुमानतः, घटादिकार्योपलब्धेः सांव्यवहारिकप्रत्यक्षतश्चीत, Paa आह-कालसत्ता कथमवगम्यते ?, उच्यते, बकुलचम्पकाशोकादिपुष्पफलप्रदानस्य नियमेन दर्शनात् , नियामकश्च काल इति, आह--पूर्वानुपूर्वी TERROCCASRABECAREL For Private and Personal Use Only