________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा तदेवानुभूतभावत्वात् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकं / आवस्सएत्तिपदस्थाधिकारजाणगस्सेत्यादि, आवश्यकमिति यत्पदं भव्यशररि-18| नोआगम हारि.वृत्तौ त द्रव्यावश्यकं, अस्यार्थ एवार्थाधिकारः तद्गता अर्थाधिकारा वा गृह्यन्ते तस्य तेषां वा ज्ञातु: यच्छरीरकं, संज्ञायां कन् , किंभूतं ?- व्यपगत- द्रव्ये भेदाः च्युतच्यावितत्यक्तदेहं, व्यपगतम्-ओघतश्चतनापर्यायादचेतनत्वं प्रानं च्युतं-देवादिभ्यो भ्रष्टं च्यावितं-तेभ्य एवायु:क्षयेण भ्रंशितं त्यक्तदेह-जीव॥१४॥ संसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवपारत्यक्तोपचयं, तत्र व्यपगतं सर्वगताऽऽत्मनः प्राकृतमपि भवति तद्विच्छित्तये कयुतं, इदमपि स्वभावत एव कैश्चिदिष्यते तद्व्यपोहाय च्यावितं, इत्थं त्यक्तोपचयमिति चैतज्जीवशरीरयोविशिष्टसम्बन्धज्ञापनार्थमिति, उक्तं च वृद्धैः"पज्जायतरपत्त खीरंव कमेण जह दधित्तणं / तह चेतणपज्जायादचेयणतं ववगतंति // 1 // चुतमिह ठाणभट्ट देवोव्व जहा विमाणवा-1 साओ / इय जीवितचयणादिकिरियाम8 चुतं भणिमो // 2 // चइयंमि चावितं जं जह कप्पा संगमो सुरिंदेणं / तह चावियमिति जीवा |पलिएणाउक्खएणति // 3 // आहारसत्तिजणिताऽऽहारसुपरिणामजोवचयसुण्णं / भण्णइ हु चत्तदेहं देहोवरओत्ति एगट्ठा // 4 // एवमुक्तेन विधिना जीवेन-आत्मना विविधमनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तथा चान्यैरप्युक्तं- बंधणछेदत्तणओ आउक्खयउव्व जीवविप्प-11 जढं / विजढंति पगारेणं जीवणभावद्वितो जीवो // 1 // ' ततश्चेदं व्यपगतादिविशेषणकलापयुक्तं यावजीवविप्रमुक्तं ज्ञशरीरद्रव्यावश्यक| मिति गम्यते, कथं ?, यस्मादिदं शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दष्वा कश्चिदाह-अहो ! अनेन शरीरसमुच्छ्येण जिनदृष्टेन भावेन आवश्यकमित्येतत्पदमाख्यातमित्यादि, तस्मादतीतकालनयानुवृत्त्याऽतीतां वृत्तिमपेक्ष्य द्रव्यावश्यकमित्युच्यत इति क्रिया, यथा को 81 दृष्टान्त इति ?, प्रश्ननिर्वचनमाह-अयं मधुकुम्भ आसीदयं घृतकुम्भ आसीदित्यादि अक्षरगमनिका, भावार्थ उच्यते-तत्र शय्यासंस्तारको प्रतीती, सिद्धशिलातलं तु यत्र शिलातले साधवस्तपःपरिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाअनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते ASSAGARLSSSSSSS // 14 // For Private and Personal Use Only