________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
॥१०॥
कृतांजलिपुटा निजस्वामिनं प्राह, भो कांत ! मम जिनोक्तप्रवज्याग्रहणाभिलाषो वर्तते, अतो मामनुजा-४ अनिकापुत्र
नीथ? राजा प्राह, हे प्रिये ! अहं क्षणमपि भवत्या वियोगं सोढुमसमर्थः, अतस्त्वं प्रव्रज्यां गृहीत्वात्रैव चरित्र
स्थिता मदीयगृहादेव शुद्धाहारग्रहणपरा भवेस्तदेव त्वां प्रवज्यार्थमनुजानामि, नान्यथा. तयापि तदोय. है वचसि स्वीकृते राजा तस्यै प्रवज्यां दापयामास. एवं गृहीतदीक्षा पतिगृहस्थिता सा पुष्पचूला राज्ञी द्वि
चत्वारिंशदोषरहितं विशुद्धमाहारं गहातिस्म. अथान्यदा श्रुतोपयोगाद्भाविदुर्भिक्षं परिज्ञायान्निकापुत्रसूरिर्मुनिसमुदायं देशांतरे प्रेषयामास, क्षीणजंघाबलाः सूरयस्तु तत्रैव तस्थुः, सा पुष्पचूलासाध्वी च नृपांत:पुरात शुई भक्तपानीयादि समानीय गुरुभ्यः समर्पयति. एवं क्रमेण गुरुसेवाप्रकर्षात् क्षपकश्रेणिमारूढायास्तस्याः पुष्पचूलासाव्याः केवलज्ञानं समुत्पन्नं. एवमुत्पन्नकेवलज्ञानापि सा गुरुवेयावृत्यकरणतो न विरराम. छद्मस्थेन गुरुणापि तस्याः केवलज्ञानोत्पत्तिस्वरूपं न ज्ञातं, यदियं केवलज्ञानालंकृतापि शुद्धाहारानयनादिना मे विनयं करोतीति. अथान्यदा वर्षत्यपि जलदे सा पुष्पचूला साध्वी केवलवत्यपि याव: दगुरुसमीपे आहारमानीयापयति, तदा गुरुभिरुक्तं, हे वत्से! त्वं पुण्यवती च श्रतज्ञासि, तत्कथमेवंविधे
EXAMBALSAX5
For Private and Personal Use Only