________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः न च निरन्वयनश्वरवादिनः तदन्यप्रभवः सम्भवति, सर्वथा हेतुनिवृत्तावहे तुकत्वप्रसङ्गाद; अन्यथा अन्वयसिद्धेः, इति । उक्तं च'सर्वथा कारणोच्छेदाद्भवेत् कार्यमहेतुकम् । तच्छक्त्यवयवाधारस्वभावानामनन्वयात् ।। १ ।।
इत्यादि ।'
न चाऽस्य संवेदनस्य बाधकः प्रत्ययोऽस्ति, कदाचिदप्यनुपलब्धेः । न च ‘योगिप्रत्ययो बाधकः' इति युज्यते वक्तुम्, प्रमाणाभावाद् । उक्तं च'क्षणिकं योगी विजानाति, न नित्यं चेति का प्रमा? । देशनाया विनेयानुगुण्येनापि प्रवृत्तितः ।। १ ।।'
१. ततो निरन्वयनश्वराद्वस्तुनस्तत्सदृशस्यान्यप्रभव उत्पादः । २. मृत्पिण्डाद्यभावमाश्रित्य घटादेरुत्पादात् । ३. तत एव तद्भावे । ४. स्वभावाद् भावभूते । ५. तच्छक्तेःकारणशक्तेः, अवयवाः-शक्तिशक्तिमतोरभेदात् कारणावयवा एव; तच्छक्त्यवयवाश्च ते आधारस्वभावाश्च, इति, प्रक्रमात् कार्यस्य, इति विग्रहः, तेषामन्वयोच्छेदेन । ६. अन्वयव्यतिरेकवतः । ७. जातिविकल्पभावनाकालेऽपि अपास्ताशेषप्रपञ्चः । ८. योगिप्रत्ययाग्रहणाद, इत्यर्थः । ९. न किञ्चित्प्रमाणं तज्ज्ञानाग्रहणात् । १०. 'देशना प्रमाणं भविष्यति' इति । एतदपोहायाह-भूतात्मनो द्वैताद्वैतदेशनावद्, ब्राह्मणस्य मृतजायामृतदेशनावच्चेति ।
For Private and Personal Use Only