________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः विज्ञानादिकार्यायोगात् तदवगमाभावः, इति ।
अथ, अपि प्रकृत्यैकक्षणस्थितिधर्मकं एकान्तानित्यमभ्युपगम्यते ? एवमपि विज्ञानादिकार्यायोगात् तदेवगमाभाव एव । न च सर्वथैकक्षणस्थितिधर्मिणो विज्ञानादिजनकत्वमुपपद्यते, तस्यैवायोगात्; तथाहिक्षणस्थितिधर्मकं क्षणस्थितिस्वभावमुच्यते, इति; अतोऽर्थादेवास्य द्वितीयादिष्वस्थितिः, इत्यकामेनापि प्रतिपत्तव्यम्, न्यायानुगतत्वात्; तयोश्च स्थित्यस्थित्योः परस्परतोऽन्यत्वम् ? अनन्यत्वं वा ? इति वाच्यम् ।
१. तेन सहकारिणा सह जननस्वभावत्वात् । सहकारिभावे जनयति, सहकार्यभावाच्च न पूर्वमपि जनयति, इति चेत् ? न, सहकारिणा सह कार्यजननस्वभावत्वस्यापि नित्यत्वे सति सदाकार्यजननप्रसङ्गात्; अन्यथा तस्य नित्यतानुपपत्तेः । तथाहि-यदि सदा तेन सहकारिणा कार्यजननस्वभावं वस्तु, तर्हि सदा किं न जनयति कार्यम् ? अजनयद्वा, कथं सदा तत्स्वभावं ? ततश्च यदा कार्यं भवति, तदैव तज्जननस्वभावं, न तु सदा, इत्यवश्यमङ्गीकर्त्तव्यम्; अन्यथा, सहकारिणोऽपि सदाभावापत्तिः, सदा तेन सहकारिणा सह तजननस्वभावत्वाद्वस्तुनः । एवं स्वभावभेदे सति कथं वस्तुन एकान्तनित्यता ? इति चिन्त्यम् । २. एकान्तानित्यता । ३. वस्तुन एव । ४. तदभावभाविनो विज्ञानस्य तत्कार्यत्वासिद्धेः, अर्थस्यात्यन्तपरोक्षत्वात् ।
For Private and Personal Use Only