________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
अनेकान्तवादप्रवेशः तैर्विनाऽभावात्, तत्परिणामत्वाच्च; अतत्परिणामत्वे च, तदभावप्रसङ्गात् इति ।
स्यादेतद्, स्वद्रव्यसत्त्वमेव परद्रव्यासत्त्वम्, स्वक्षेत्रसत्त्वमेव परक्षेत्रासत्त्वम्, एवं स्वकालसत्त्वमेव परकालासत्त्वम्, एवं स्वभावसत्त्वमेव च परेभावासत्त्वम्, इति । तथा च-घटवस्तुनः पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वम्, तथेहक्षेत्रसत्त्वमेव पाटलिपुत्रकाद्यसत्त्वम्, तथा घटकालसत्त्वमेव मृत्पिण्डकपालकालासत्त्वम्, तथा श्यामत्वसत्त्वमेव रक्ताद्यसत्त्वम्, तस्यैकस्वभावत्वाद् निरंशत्वाद्, इति ।
. एतदप्यसारम्, तस्यैकस्वभावत्वेऽवस्तुत्वप्रसङ्गात्; तथाहि- 'यदि पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वम्,' एवं तहि यथा तत्पार्थिवद्रव्यत्वेन सत् एवमबादिद्रव्यत्वेनापि सदेव स्यात्, तत्सत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथा वा
१. पार्थिवत्वाद्यभावात् । २. बौद्धः प्राह-। ३. नहि स्वद्रव्यादिसत्त्वादर्थान्तरभूतं परद्रव्याद्यसत्त्वम् । ४. मन्येथाः। ५. सत्त्वस्यैवासत्त्वरूपत्वात् । ६. यद्यस्मादभिन्नं तत्तत्स्वरूपमेव, तच्छब्दवाच्यं च । ७. यथा घटस्वत्वं तथा चेदमसत्त्वं व्यापकानुपलब्धिः । ८. पार्थिवद्रव्य । ९. माहात्म्यमन्तरेणाव्यतिरेकाभावात्, इति भावः । १०. अबादिद्रव्य ।
For Private and Personal Use Only