________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(राममवलोक्य सहर्षम् ।)
भल्लावलूनदशकंधरकण्ठपीठ
सीमासमाप्तभुजविक्रमकर्मकाण्डः । दिष्टया जगद्विजयमाङ्गलिकैयशोभिः
सोऽयं पुनर्नयनवर्त्मनि रामचन्द्रः ॥ १३५॥ रामः-(ससंभ्रममुपसृत्य वसिष्टपादावुपगृह्य च ।)
रघुब्रह्मक्रियाचार्य पुराणब्रह्मवादिनम् ।
ब्रह्मर्षि ब्रह्मजन्मानमेष रामोऽभिवादये ॥ १३६ ॥ वसिष्ठः-(सादरमालिङ्गय ।) वत्स रामभद्र, का तुभ्यमाशीः । आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डमूषान्तरे
निर्विघ्नं धमता नितान्तमुदितैः खैरेव तेजोनिभिः । तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणा पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ॥ १३७ ।।
रावणदलनेनापि कथं न चित्रीयत इत्यत आह-यद्यस्मात्कारणाद्वालेनापि सतामुना रामेणाजौ सङ्ग्रामे स जामदग्न्यो मुनिर्विगलितवतो विशेषेण गलितस्य वीर्यनिर्यासराशेः वीर्य पराक्रमस्तस्य निर्यासराशेः सारभागराशेः पिण्याकस्तिलकल्को निर्मितः कृतः तत्परं चित्रीयते । त्याजितदर्पत्वात्सारशून्यः कृत इत्यर्थः । चित्रीयत इति 'नमोवरिवश्चित्रङ: क्यच्' इति क्यच् । चित्रको ङित्त्वादात्मनेपदम् । भल्लेति । सोऽयं रामभद्रो नयनवम॑नि कृतः दृष्ट इत्यर्थः । दिष्टयेत्यानन्दे । 'दिष्ट्या समुपजोषं चेत्यानन्दे'इत्यमरः । यशोभिर्लक्षितः । इत्थंभूतलक्षणे तृतीया । कीदृशैः। जगद्विजये माङ्गलिकैः। मङ्गलाय प्रभवन्ति माङ्गलिकाः । ठक् । कीदृशैः । भल्लेनास्त्रविशेषेणावलूनं छिन्नं यद्दशकंधरस्य कण्ठपीठं तस्य सीमावसानं तया समाप्तः पर्यवसन्नो भुजविक्रमकर्मकाण्डो बाहुबलव्यापारसमूहो यस्य सः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । रघुव्रह्मेति । रघूणां या ब्रह्मक्रिया वेदाभ्यासस्तत्राचार्यमुपदेष्टारम् । पुराणब्रह्मवादिनं वृद्धं वेदवक्तारम् । अत्र ब्रह्मशब्दो वेदपरः । ब्रह्मर्षिमित्यत्र ब्रह्मा ब्राह्मणः ब्रह्मा चासौ ऋषिश्चेति ब्रह्मर्षिस्तम् । ब्रह्मजन्मानमित्यत्र ब्रह्मा प्रजापतिस्तस्माजन्म यस्य तम् । अभिवादये नमस्करोमि।अहमित्यध्याहारः। 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । आदायेति । भवता रामेण पिण्डस्थमेकीभूतं महत्तरं च यशःप्राप्तम् । की. दृशम् । निःक्षारं निर्मलम् । तारमुद्भटं शुभ्रं वा। अतः का तुभ्यमाशीः प्रदेया भवति । आशीर्जन्यफलभागिलाद्भवतः । ननु यशसः कुतः पिण्डस्थत्वमत आह-यशः की.
For Private and Personal Use Only