________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
काव्यमाला। रामः- (सहर्षम्।)
गौरीविभज्यमानार्धसंकीर्णहरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु ते ॥ ११८ ॥ (सीतां प्रति ।) देवि, वन्दस्व ।
देवस्याम्बुजसंभवस्य भवनादम्भोधिमागामुका
सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी । उद्यातानपहाय विग्रहमिह स्रोतःप्रतीपानपि
स्रोतस्तीव्रतरत्वरा गमयति द्रारब्रह्मलोकं जनान् ॥ ११९ ॥ सीता-(कृताञ्जलिः।) एसा णिअस्सोतसिङ्खलासंदाणिदतिहुअणे मन्दाइणि, वन्दिजसि ।
(सर्वे नमन्ति ।) लक्ष्मण:-(अन्यतो दर्शयन् ।) धनाधिनाथप्रणयानुरोधादभमकैलासनिकेतनस्य । देवस्य कल्पान्तकपालपाणेर्वा राणसी नाम पुरी पुरस्तात् ॥ १२० ॥ रामः-(सहर्षमवलोक्य ।)
प्लवमानैरपारोऽयं जनैः संसारसागरः।
द्वीपे वाराणसीनाम्नि विश्रान्तैरिह तीर्यते ॥ १२१ ॥ इति । तेन सगरसुतचितायाः समुद्रजलराशेः पावनी सा गङ्गेति भावः । गौरीति । हे अम्ब मातः, इति संबोधनम् । 'अम्बार्थनद्योह्रस्वः' इति हृवत्वम् । यत्र किल नद्यो विस्तृता न भवन्ति तत्र गम्भीरा भवन्तीति भावः । देवस्येति ।अम्बुजसंभवस्य देवस्य ब्रह्मणः । आगामुका आगमनशीला । 'लषपत-' इत्यादिना उकञ् । भर्गस्य शिवस्य । 'स्मरहरो भर्ग:' इत्यमरः । इह भागीरथ्यां विग्रहं शरीरमपहाय त्यक्त्वा उद्यातानूचे गतान् । 'या प्रापणे' । क्तः । स्रोतःप्रतीपान्स्रोतसः प्रवाहस्य प्रतीपाविपरीतगामिनोऽपीति विरोधाभासः । गङ्गास्रोतोऽधोगामि, जना ऊर्ध्वगामिन इति भावः । स्रोतसा तीव्रतरा अतिशयिता त्वरा वेगो यस्याः सा । एतेनाद्भुतत्वं ध्वनितम् । द्राक्तत्क्षणम्। 'द्राग्झटित्यअसाहाय' इत्यमरः । एसेति । एषा निजस्रोतःशृङ्खलासंदानितत्रिभुवने मन्दाकिनी, वन्द्यसे' [इति च्छाया। इह स्रोत एव शृङ्खला 'सांकर' इति ख्याता, इति रूपकम् । संदानितं बद्धम् । 'बद्धे संदानितं मूर्तम्' इत्यमरः । धनाधिनाथः कुबेरः । 'प्रणयः प्रेम्णि विश्वासे याच्याविरम्भयोरपि' इति । संसार एव सागरः समुद्रः। जलमध्ये खत उत्थितः समुच्छ्रितभूभागो द्वीपः । 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' १. 'आगामुकी'.
For Private and Personal Use Only