________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्धराघवम् ।
३०५ संभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायित
त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्रायताम् ।। १११ ॥ रामः-(प्राञ्जलिः ।)
नमस्तुभ्यं देवासुरमुकुटमाणिक्यकिरण
प्रणालीसंभेदन पितचरणाय स्मरजिते । महाकल्पस्वाहाकृतभुवनचक्रेऽपि नयने
निरोद्धं भूयस्तत्प्रसरमिव कामं हुतवते ॥ ११२ ॥ किं च ।
वेगादगाद्देव तव त्रिनेत्र युग्मेतरस्मान्नयनात्कृशानुः । कामे तु संमोहनशस्त्रहस्ते खाहामनुध्याय चिरं जडोऽभूत् ।। ११३ ।।
(सर्वे नमन्ति ।) सीता--(विहस्य ।) अहो तत्थभवदो ससहरसेहरस्स कवलिदचउद्दसभुवणम्स वि ण पलाइदा अक्खिवुभुक्खा जेण भअवं मअणो वि विआलिअग्गासीकिदो।
(सर्वे हसन्ति ।) तया वलयितं वेष्टितं तत्पञ्जरं हंसपारम् । भुजदण्डावेव पक्षपटलद्वन्द्वं पक्षतिद्वयम् । हंसायितो हंसीभूतः । व्ययो नाशः स एव नाटिका नाट्यविशेषस्तस्या नयोऽभिनयस्तत्र नट इव नटः । नमस्तुभ्यमिति । प्रणाली 'पनारी' इति प्रसिद्धा तस्याः संभेदः संबन्धः । स्नपितं स्नानं कारितम् । मित्संज्ञायां 'मितां ह्रखः' इति ह्रखत्वम् । स्मरजिते हराय । महाकल्पे प्रलये स्वाहाकृतं इतं भुवनचक्र यत्र तादृशे । नयने नेत्राग्नौ । निरोद्धं निरुद्धं कर्तुं वारयितुमिव । भूयः पुनरपि । तत्प्रसरं नेत्राग्निप्रसरणम् । इवशब्द उत्प्रेक्षायाम् । कामं कंदर्प हुतवते होमविषयं कुर्वते । कामः पूर्णाहुतिरिव कृत इति भावः । वेगादिति । हे देव त्रिनेत्र, इति संबोधनम् । युग्मेतरस्मात् द्वयान्यतरस्मात् तृतीयात् । कृशानुरग्निः । संमोहयतीति संमोहनम् । तादृशं शस्त्रं वाणो हस्ते यस्य तादृशे सति । यद्वा तादृशकामविषये । जडः शीतलः । निष्क्रिय इति यावत् । स्वाहा अ. ग्निवधूस्तामनुध्यायानुस्मृत्य । कामेन संमोहनास्त्रेण मोहितः सन् वह्निः स्वाहास्मरणासक्त एवाभूदिति भावः। 'स्वाहा तु हुतभुक्प्रिया' इत्यमरः। अहो तत्थेति ! 'अहो तत्रभवतः शशधरशेखरस्य कवलितचतुर्दशभुवनस्यापि न पलायिता अक्षिबुभुक्षा येन भगवान्मदनोऽपि विकालिकग्रासीकृतः' [इति च्छाया । ] इह पलायिता अपगता । बुभुक्षा
१. 'भुजखण्ड-'. २. 'स्वाहीकृत-'.
For Private and Personal Use Only