________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मतुप् । अत्र यद्यपि कर्मधारयमत्वर्थीयाद्बहुव्रीहिरेवेटो लाघवात् , तथाप्यर्थलाघवार्थमिह कर्मधारयान्मत्वर्थीय एव क्रियते । अर्थलाघवं च कर्मधारयमत्वर्थीये चाभिधावृत्त्या प्रतिपत्तिर्बहुव्रीहौ तु लक्षणयेति साक्षात्संबन्धः परम्परासंबन्धश्च गमक इति विशिटेऽर्थे मत्वर्थसंबन्धस्य विवक्षणानोक्तदोषः विवक्षायाश्च पुरुषाधीनतया नातिप्रसङ्गः । अत एव 'बिसकिसलयच्छेदपाथेयवन्तः' इत्यादि प्रयोगोऽपि । यद्वा भूमनिन्दाप्रशंसासु' इति प्रशंसायां मतुप् । एतेन सूर्यचन्द्रवरूपचक्षुयेन कोकप्रीतिथकोरपारणा चेत्युक्तम् । तथा च परमकारुणिकयोर्लोचनयोरुपाधि विना कोकानां प्रियाशोकापहारितया प्रीतिप्रदानेन, चकोराणां ज्योत्स्नाभक्ष्यदानेन चोपासनकर्तुरभिलषितप्रदातृत्वं भविष्यतीति भावः । याभ्यां लोचनाभ्यां नाभ्येव पल्वलमल्पसरः । नाभी पल्वलत्वेन रूपिता गभीरत्वात् । रूपकलक्षणं चाह दण्डी-'उपमैव तिरोभूतभेदा रूपकमिष्यते' इति । तत्स्थं यत्पुण्डरीकं श्वेताम्भोजं तस्य यो मुकुल ईषद्विकसिता कलिका स कम्बोः शङ्खस्य सपत्नीकृतः । सदृशीकृतः । पुण्डरीकस्य श्वेतगुणयोगितया शवेन सह सादृश्यम् । यद्यपि सपत्नशब्दःप्रतिपक्षवाची, तथापि यः प्रतिपक्षः स सदृशो भवतीति लक्षितलक्षणया सपत्नशब्देन सादृश्यं प्रतिपाद्यते । अत एव 'प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । तस्य चानुकरोतीति शब्दाः सादृश्यवाचकाः ॥' इति दण्डी। पुण्डरीकमुकुलस्य शङ्खसादृश्ये बीजमाह-अर्धेत्यादि । अर्धे यो विबोधः प्रकाशस्तेन मुग्धाव्यक्ता मधुरा रम्या श्रीः शोभा यस्य तादृशः। यद्वा मुग्धा प्रत्यग्रा मधुरा रम्या श्रीः शोभा यस्य सः। यद्वा मुग्धमधुरात्यन्तमनोहरा । पर्यायशब्दद्वयोपादानादतिशयित एवार्थो गम्यते। यथा नलचरिते (नैबधकाव्ये १२११०१) 'उन्मीलल्लीलनीलोत्पल-' इत्यादि । यद्वा मधु यत्रास्ति सा मधुरा । 'ऊषसुषिमुष्कमधो रः' इति रः । अर्धे निद्रायितो मुद्रितोऽर्धनिद्रायितः । दलनिमीलनेन निद्रासादृश्यम् । इह सूर्यचन्द्रयोः सांनिध्यं हेतुः । अत एव शङ्खसाम्यम् । तथा च विशेषणवलाद्विष्णोर्लोचने उपास्मह इति पर्यवसितम् । अत्र यद्यपि 'गङ्गा नागपतिः सोमः सुधानन्दो जयाशिषः । एभिर्नामपदैः कार्या नान्दी कविभिरङ्गिता ॥' इति भरतवचनादवश्योपादेयं गङ्गादिपदं न कण्ठतः श्रूयते । तथापि चकोरपारणपटुज्योतिःपदेन चन्द्रसंकीर्तनमेव । न च एभिनीमपदैरित्यनेन तत्तत्पदेनैवोपादानमिति वा च्यम् । तस्योपलक्षणत्वात् । 'जितमुडुपतिना' (रत्नावल्याम् १ । ५) इत्यादौ तथैव परिदृष्टत्वात् । एवं चार्थलभ्यताभिगम्यते । अत्रार्धविबोधमुग्धमधुरश्रीरित्यनेनैवार्धनिद्राणत्वं लभ्यत एवेति यद्यपि, तथाप्यवशिष्टार्धखण्डितत्वशङ्कानिराकरणायार्धनिद्रायित इति पदमुपात्तम् । केचित्तु 'अर्थतः प्राप्तेऽपि निद्राणत्वे स एव विशेषः शाद्या वृत्त्या परिचीयतामित्येतदर्थं तदुपादानं शाब्द्या वृत्त्या भणनं न पौनरुक्त्यमावहति' इति । तथा च सरस्वतीकण्ठाभरणे 'आर्थ्या वृत्त्या लब्धस्य शास्त्रेतिहासादौ शान्द्या वृत्त्या भणनं न पौनरुक्त्याय' इत्याहुः । एवं च न्यायाचार्या अपि 'श्रुतिप्राप्तेऽर्थे प्रकरणादीनामनवकाशात्' इति द्रव्यकिरणावल्यामूचिरे । अपरे तु 'यतश्चार्धविवोधमुग्धमधुरश्रीरत एवार्धनिद्रायित इति हेतुहेतुमद्भावसंगत्या न पौनरुक्त्यमत्र' इत्याहुः । अन्ये तु 'भगवल्लोचनयोः
For Private and Personal Use Only