________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य वनौषधिवर्गः अस्त्री प्रकांडः स्कंधः स्यान्मूलाच्छाखाधिस्तरोः॥१०॥ समे शाखालते स्कंधशाखाशाले शिफाजटे॥ शाखाशिफा ऽवरोहः स्यान्मूलाञ्चाग्रंगता लता ।। ११ ॥ शिरोऽयं शिखरं वा ना मूलं बुधों ऽघ्रिनामकः॥ सारो मज्जा नरि त्वक् स्त्री वल्लं वल्कलमस्त्रियाम् ॥ १२॥ काष्ठं दार्विधनं वेध इध्ममेधः समित्त्रियाम् ॥ निष्कुहः कोटरं वा ना वल्लरिमरिः स्त्रियौ ॥ १३॥ चेति मेदिनी ।" प्रकांडः स्कंधः इति द्वे तरोर्मूलमारभ्य शाखापर्यंतो यो भागस्तत्र । मूलाच्छाखावधेस्तरोरित्यपि पाठः । “ तरोर्मूलस्कंधयोरंतरं प्रकांड: " ॥ १० ॥ शाखा लता द्वे शाखायाः । स्कंधशाखा शाला द्वे प्रधानशाखायाः । स्कंधात्प्रथमोत्पन्नशाखाया इत्यर्थः । शिफा जटा द्वे तरुमलस्य “पाळ इति प्रसिद्धस्य ।" शाखायाः शिफा मूलं अवरोह इत्युच्यते एकं " पारोगा पारंबी इति प्रसिद्धस्य ।" मूलादृक्षमूलमारभ्यापर्यंतं गता लता गुडूच्यादिरप्यवरोह इत्युच्यते एकम् । “ मूलादूर्ध्वं गता शिफा लता स्यादित्यपि " ॥ ११ ॥ शिरसोऽयं शिरोऽग्रं तत् शिखरमित्युच्यते । शिरआदयस्त्रयो ऽपि पर्याया इति केचित् । शिखरं वा ना पक्षे पुंसीत्यर्थः । मूलं बुनः (ब्रन इत्यपि ) अंघ्रिनामकः पादमूलपर्यायसंज्ञकः त्रीणि वृक्षादेर्मूलस्य । सारः मज्जा द्वयं वृक्षादेः स्थिरांशे “ गाभा, नार इति ख्याते ।" तत्र मज्जा नांतः । नरि पुंसि । कचिट्टाबंतो ऽपि दृश्यते । "सारो मज्जा समौ त्वक् स्त्रीति पाठः । समौ समानलिंगौ।" त्वक् वल्कं वल्कलं त्रयं वचः । तत्र वल्कादिद्वयं क्लीबपुंसोः ॥१२॥ काष्ठं दारु ।“ दारुरित्यन्यत्र । पुनपुंसकयोर्दारुरित्युक्तेः " द्वे काष्ठमात्रस्य । इंधनं एधः इध्मं एधः समित् पंचकं शुष्कस्य तृणकाष्ठादेः । " आद्यत्रयं अग्निसंदीपनतृणकाष्टादेः जळण इति प्रसिद्धस्य । अंत्यद्वयं यागादौ हूयमानसमिदादेरिति मतम् ।" तत्र आद्य एधःशब्दः सांतः क्लीबे । अन्यस्त्वदंतः पुंसि । समिद्धांतः । निष्कुहः कोटरं द्वे वृक्षगतवि. वरस्य । कोटरं वा ना पक्षे पुमान् । वल्लरिः मंजरिः कृदिकारादक्तिन इति गणसूत्रात् वल्लरी मंजरी इत्यपि । द्वे तुलस्यादेरभिनवोनिदि "केसर इति ख्यातस्य" ॥ १३ ॥ पत्रं पलाशं छदनं दलं पर्ण छदः षटं पत्रस्य । तत्र छदो ऽदंतः पुंसि
For Private And Personal