________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथम कांडम्. पुंस्येवांऽधुः पहिः कूप उदपानं तु पुंसि वा ॥ २६ ॥ नेमिस्त्रिकास्य वीनाहो मुखबंधनमस्य यत् ॥ पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥२७॥ पद्माकरस्तडागो ऽस्त्री कासारः सरसी सरः॥ वेशंतः पल्वले चाल्पसरो वापी तु दीर्घिका ॥२८॥ खेयं तु परिखाधारस्त्वंभसां यत्र धारणम् ॥ स्यादौलवालमावालमावापोऽथ नदी सरित् ॥ २९॥
यत्रत्यं जलं सुखेन गावः पिबंति तत्र आहावः निपानं इति द्वे। अंधुः प्रहिः कूपः उदपानं चत्वारि विहीर इति ख्यातस्य । तत्रोदपानं पुंसि वा ॥ २६ ॥ अस्य कूपस्य नेमिः अंते रज्ज्वादिधारणार्थ दारुयंत्रं सा त्रिका | त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठधरे ऽस्त्रियामिति विश्वमेदिन्यौ । एकं “ हातराहाट इति ख्यातस्य ।" अस्य कूपस्य पाषाणादिभिर्यन्मुखनिबंधनं नंदीपट इति ख्यातं स वीनाह उच्यते । "विनाहः” एकम् । पुष्करिणी खातं द्वे पुष्करिण्याः । अखातं देवखातकं “अखातो देवखातक इति पुंस्कांडे ऽमरदत्तात्पुंस्यपि” द्वे अकृत्रिमखातस्य । “देवद्वारस्थजलाशयस्येत्यन्ये" ॥ २७॥ पद्माकरः तडागः कासारः सरसी सरः पंच तडागस्य । तत्र तडागे तटाक इति पाठः स पुन्नपुंसकयोः । “ तटाकतडागावपि । अत्र पद्मादि वे सपद्मागाधजलाशयस्य । कासारादित्रयं कृत्रिमपद्माकरस्येत्यपि मतम् " सरसी स्त्री । सरः सांतम् । वेशंतः पल्वलं "पल्वलः" । वेशंतः पल्वलोऽस्त्रीति वाचस्पतिः । अल्पसरः त्रीणि स्वल्पसरसः । वापी," वापिः । वाप्यां वापिरपि स्मृतेति द्विरूपकोशः" । दीर्घिका द्वे दीर्थीति ख्यातायाः " अवरोहणवापिकायाः " ॥ २८ ॥ खेयं परिखा द्वे दुर्गाद्वहिर्यत्परितः खातं क्रियते तस्य चर इति प्रसिद्धस्य (खंदक इत्यपि प्रसिद्धिः)। यत्र अंभसां धारणं क्षेत्रादिसेकार्थ जलानां संग्रहणं स आधार उच्यते एकम् “धरण, बांद इति ख्यातस्य ।” यदुक्तम् । अपांधारणमाधारस्तदल्पं चालवालकमिति । आलवालं “अलवालं" आवालं आवापः त्रीणि वृक्षादिमूले समंततों ऽभसो धारणार्थं यद्वेष्टनं तस्य “भळे इति ख्यातस्य ।" नदी सरित् ॥ २९ ॥ तरंगिणी शैवलिनी तटिनी हादिनी "व्हदिनी"
For Private And Personal