________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथमं कांडम्. विषवैद्यो जांगुलिको व्यालग्राह्यहितुंडिकः॥ ११॥
इति पातालभोगिवर्गः॥ ॥॥ स्यानारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।। तबेदास्तपनावीचिमहारौरखरोखाः॥१॥ संघातः कालसूत्रं चेत्याद्याः सत्वास्तु नारकाः॥ प्रेता वैतरणी सिंधुः स्यादलक्ष्मीस्तु निर्ऋतिः॥२॥
र्यायाः । “हलाहलं हालहलं वदंत्यपि हलाहलमिति द्विरूपकोशः । गोनासगो. नसौ । हलाहलं हालहलं विषमिति त्रिकांडशेषः।" सुराष्ट्रदेशे भवः सौराष्ट्रिकः । "सारोष्ट्रिक इत्यपि" शुक्लिकायां भवः शौक्तिकेयः " सोमल इति प्रसिद्धः” । ब्रह्मणः पुत्रः ब्रह्मपुत्रः । यद्याज्ञवल्क्यः । त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थित इति । प्रदीपयति जठरमिति प्रदीपनः । दरदि देशे भवो दारदः वत्सनाभः “बचनाग इति प्रसिद्धः" । विषवैद्यः जांगुलिकः द्वे विषहारवैद्यस्य । "जांगुली विषविद्यामधीते वेद वा। उक्तंच । परीक्षितं समझीयाज्जांगुलीभिर्भिषग्वृत इति ।" व्यालग्राही । अहितुंडिकः अहेस्तुडं मुखं तेन दीव्यतीति ठक् । इति द्वे सर्पग्राहिणः “गारुडीति प्रसिद्धस्य" । “व्यालग्राह्याहितुंडिक इति पाठः । तत्र आहितुंडिक इति"॥११॥इति पातालभोगिवर्गः ॥२॥ नारकः नरकः निरयः दुर्गतिः चत्वारि नरकस्य । नरकभेदानाह । तपनः अवीचिः न विद्यते वीचिः सुखं यत्र । वीचिः स्वल्पतरंगे स्यादवकाशे सुखेऽपि चेति विश्वः। महारौरवः रौरवः ॥१॥ संघातः (संहार इत्यपि पाठः) कालसूत्रं इत्याद्यास्तपनादिनरकभेदाः । आद्यशब्दात्तामिस्रकुंभीपाकादयः । तप्यते अनेन तपनः । जलवत् भासमानोप्यश्मपृष्ठरूपत्वान्भवीचयो यत्र सो ऽवीचिः । रुरवो नाम क्रव्यादा अतिक्रूरास्तत्संबंधी म. हानरको महारौरवः । रुरवः सर्पेभ्यो ऽतिहिंस्रा जंतुविशेषास्तत्संबंधी रौरवः । सम्यक् हन्यते यत्र संघातः । कालरूपाणि सूत्राणि यत्र तत्कालसूत्रं एकैकम् । नारकाः नरके भवाः सत्वाः प्राणिनः प्रेता उच्यते एकम् । नारकी सिंधुर्नदी वैतरणी ज्ञेया । विगतस्तरणिर्यत्र तत्र भवा । विगता तरणिौर्यत्र वा एकम् । नारक्यलक्ष्मीरशोभा मिऋति: उच्यते । निर्गता ऋतिघृणा यस्याः । ऋतिर्गतौ घृणायां च श्रद्धायां च
For Private And Personal