________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथमं कांडम्. गर्तावटौ भुवि श्वने सरंध्रे सुषिरं त्रिषु ॥२॥ अंधकारो ऽस्त्रियां वातं तमिस्र तिमिरं तमः॥ ध्वांते गाढे ऽधतमसं क्षीणे ऽवतमसं तमः॥३॥ विष्वक् संतमसं नागाः कावेयास्तदीश्वरः॥ शेषो ऽनंतो वासुकिस्तु सर्पराजो ऽथ गोनसे ॥१॥ तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ॥ अलगर्दी जलव्यालः समौ राजिलकुंडुभौ ॥५॥ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकंचुकः॥ सर्पः टदाकुर्भुजगो भुजंगो ऽहिर्भुजंगमः ॥६॥
“गतॊ ऽवटे कुकुंदरे इति हैमः । गर्तेत्यपि । शठकृसरगर्तशुंगा इति स्त्रीपुंसप्रकरणे रमसात् । अवटिरितीदंतो ऽपि" सुषिरमित्येकं सरंध्रे रंध्रयुक्ते वस्तुनि । “शु. पिरमपि" तत् त्रिषु वायलिंगम् ॥२॥ अंधकारः ध्वांतं तमिस्रं तिमिरं तमः पंचकमंधकारस्य । तत्रांधकारः क्लीबपुंसोः । गाढे ध्वांते सातिशये तमसि अंधतमसमित्येकम् । क्षीणे ध्वांते ऽवतमसमित्येकम् ॥३॥ विष्वक् तमः सर्वव्यापि ध्वांत संतमसमुच्यते । अंधतमसावतमससंतमसशब्दाः अकारांताः । अवसमंधेभ्यश्चेत्यनेन समासांतो ऽच् एकम् । नागाः काद्रवेयाः द्वे नागानां । तदीश्वरः नागानामीशः शेषो ऽनंत इति चोच्यते द्वयम् । वासुकिः सर्पराजः द्वे नागराजस्य । गोनसः"गोनासगोनसाविति त्रिकांडशेषः"॥४॥तिलित्सः द्वे पाणस इति प्रसिद्धस्य। अजगरः शयुः वाहसः इति त्रयं अजगरस्य आर इति ख्यातस्य । अलगर्दः "अलगर्द्धः" जलव्याल: द्वे जलसर्पस्य "पाणसर्प, विरोळे इत्यादि प्रसिद्धस्य।" राजिलः "राजील" हुंडुभः "तवर्गतृतीयादिरपि" द्वे निर्विषस्य द्विमुखसर्पस्य "मालुंड, महांडुळ, दुतोंडें" इति रूयातस्य । निर्मुक्तो निर्विषः सर्पो राजिलः परिकीर्तित इत्यभिधानात् ॥ ५ ॥ मालुधानः मातुलाहिः द्वे खट्टाकारचित्रसर्पस्य "आधोलें, दिवंड इति ख्यातस्य"। निर्मुक्तः । निर्मुक्तस्त्यक्तसंगे स्यान्मुक्तकंचुकभोगिनीति कोशांतरेऽपि । मुक्तकं. चुकः हे त्यक्तकंचुकस्य । “भत्र कंचुकस्त्वक् ।" सर्पः पृदाकुः भुजगः । भुजेन कौटिल्येन गच्छति । भुजंगः अहिः भुजंगमः ॥ ६॥ आशीविषः “आशीविषो
For Private And Personal