________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३४
सटीकामरकोशस्य [शब्दादिवर्गः चित्रं किर्मीरकल्माषशबलताश्च कर्बुरे ॥ गुणे शुक्लादयः पुसि उणिलिंगास्तु तदति ॥१७॥ इति धीवर्गः।।
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती॥ व्याहार उक्तिलपितं भाषितं वचनं वचः॥४॥ अपभ्रंशोऽपशब्दः स्थाच्छास्त्रे शब्दस्तु वाचकः॥ तिबंतचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ श्रुतिः स्त्री वेद आनायस्त्रयी धर्मस्तु तदिधिः॥
शुक्लादयः गुणे गुणमात्रे वर्तमानाः पुंसि।चित्रं तु रूपभेदान्नपुंसकं । यथास्य पटस्य शुक्लं रूपम् । तद्वति गुणवति वस्तुनि वर्तमाना गुणिलिंगाः अभिधेयलिंगाः । गुणवचनेभ्यो मतुपो लुक् इति गुणिनि वर्तमानत्वम् । तत्प्रत्याख्याने गुणगुणिनोरभेदान्निवाह इति महाभाष्ये । यथा शुक्ला शाटी शुक्ल: पटः शुक्लं वस्त्रम् । रोहितादीनां स्त्रीत्वे तु वर्णादनुदात्तात्तोपधात्तो न इति डीष्वा तकारस्य नकारश्च । यथा श्येनी श्येता । रोहिणी रोहिता । लोहिनी लोहितेत्यादि ॥१७॥ इति धीवर्गः ॥७॥ ब्राझी ब्रह्मण इयं । ब्राझो जाताविति टिलोपः ङीप् । भारती भाषा गीः “गिरापि । ब्राह्मणी वचनं वाचा जल्पितं गदितं गिरेति शब्दार्णवः । गीर्भणितिगिरेति त्रिकांडशेषः। तत्र गिरा वाणीति पाठः।" वाक् वाणी सरस्वती व्याहारः उक्तिः लपितं भाषितं वचनं वचः त्रयोदश नामानि वचनस्य । तत्रापि सरस्वत्यंतानि वचनाधिष्टाच्या देवताया अपि । व्याहारादीनि त्वधिष्ठेयस्यैव । गीः रेफांता ॥२॥ अपभ्रष्टः शब्दः गावी गोणीत्यादि अपशब्दः सोऽपभ्रंश इत्युच्यते एकम् । शास्त्रे व्याकरणादौ यो वाचकः स शब्द इत्युच्यते एकम् । यथाओतप्रोततंतूनांवाचकः पट इति।
तिसुबंतचयः तिडंतसुबंतपदसमहोवाक्यम्। वर्ण्यत् वचोशब्दसंज्ञायामिति कुत्वम् । तिडंतचयो यथा। पचतिभवति पाको भवतीत्यर्थः । सुवंतचयो यथा । प्रकृतिसिद्धमिंद हि महात्मनां । कारकान्विता कारकैः संबद्धा क्रिया वाक्यमुच्यते । यथा देवदत्त गामभिरक्ष शुक्लदंडेन । अत्रान्वित आकांक्षायोग्यतासन्निधिवशाज्ज्ञेयं ॥ २॥ श्रुतिः वेदः आम्नायः त्रयी चत्वारि वेदस्य । अत्रलिंगसंकरो न दोषाय स्त्रीति विशेषविधानात् त्रय्या व्याख्यायमानत्वाञ्च।
For Private And Personal