________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तृतीयं कांडम्.. अदंतर्दिगुरेकार्थो न स पात्रयुगादिभिः॥३॥ तल् वदे येनिकटयत्रा रैरमैथुनिकादिन् ॥ स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यव्युजिननिशाः॥४॥ दिग्भूनदीधियामिति पाठः क्वचित् ।” अदंतैर्मूलादिशब्दैर्य एकार्थः समाहारार्थो द्विगुसमासः स स्रियां स्यात् । यथा । पंचानां मूलानां समाहारः पंचमूली । एवं त्रिलोकी षडध्यायीत्यादि । अदंतैरिति किम् । पंचानां कुमारीणां समाहारः पंचकुमारि । पंचराजमित्यादौ टचि अदंतवे सत्यपि पात्रादित्वान्नपुंसकत्वमित्येके। एकार्थ इति किम् । पंचसु कपालेषु संस्कृतः पुरोडाशः पंचकपालः । न स इति । पात्रयुगाद्युत्तरपदैः अदंतैः एकार्थो द्विगुः स्त्रियां न स्यात् । यथा । पंचपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥शातल्प्रत्ययः स्त्रियां स तु भावाद्यर्थे विहितः। तत्र भावे यथा। शुक्लता। कर्मणि ब्राह्मणता । समूहे ग्रामता । स्वार्थे देवता । वृंद इति । वृंदे समूहे य इनि कट्य त्र एते चत्वारः प्रत्ययाः स्त्रियाम् । यथा । पाशादिभ्यो यः। पाशानां समूहः पाश्या । वात्या । खलादिभ्य इनिः । खलिनी पद्मिनी । रथादिभ्यः कट्यच् । रथकट्या । एवं गोत्रा । वृंदे किं । मुखे भवो मुख्यः । दंडो ऽस्त्यस्य । दंडी । वैरेति । मिथुनस्य कर्म मैथुनिका । वैरमैथुनादौ च यो वुन्प्रत्ययः स स्त्रियाम् । द्वंद्वादुन्वैरमैथुनिकयोरिति पाणिनिसूत्रात् । तत्र वैरे विरोधार्थे यथा । अश्वमहिषिका । अश्वमहिषस्येदं वैरमित्यर्थः । एवं काकोलूकिका । मैथुनिकायां यथा । अत्रिभरद्वाजिका । अत्रिभरद्वाजयोरियं मैथुनिका । विवाहरूपसंबंध इत्यर्थः । एवं कुत्सश्च कुशिका च तयोमैथुनिका कुत्सकुशिकिका । “वुन्ग्रहणं वुन उपलक्षणम् । यथा । . काशिका गार्गिकया श्लाघते । कचित् वैरमैथुनिकादिवुरिति पाठः।" आदिना वीप्सादौ बुनो प्रहणम् । स्त्रियां भावादिः स्त्रीभावादिस्तस्मिन् । स्त्रियामित्यधिकृत्य भावादौ ये विहिताः प्रत्यया अनिक्तिनादयस्ते स्त्रियां स्युरित्यर्थः । अनिर्यथा । आक्रोशे नन्यनिः । अकरणिः अजीवनिः । क्तिन् यथा । कृतिः गतिः । ण्वुल् यथा ।प्रच्छदिका प्रवाहिका आसिका। णच् यथा । व्यावक्रोशी । ण्वुच् यथा । शायिका इक्षुभक्षिका । क्यप् यथा । ब्रज्या इज्या । "स्त्रीभावादौ किम् । वदः सुपि क्यप् च । मृषोद्यं ब्रह्मभूयम् ।” युच् यथा । कारणा आसना । इञ् यथा । वापिः वासिः । कांकारिमकार्षीः । इब उपलक्षणार्थत्वादिण इक् च । यथा। आजिः कृषिः। अङ् यथा । पचाप्रपा भिदा। निर्यथा ग्लानिःम्लानिः हानिः । शप्रत्ययो यथा।क्रिया इच्छा ॥४॥
For Private And Personal