________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य [नानार्थवर्ग: नु पच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥ प्रभावधारणाऽनुज्ञानुनयामंत्रणे ननु ॥ २४७॥ गर्दासमुच्चयप्रश्नशंकासंभावनास्वपि ॥ उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४८ ॥ अमा सह समीपे च कं वारिणि च मूर्धनि ॥ इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश्चये ॥२४९ ॥ तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने ॥
अयं भीमो नु धर्मो नु । “नु प्रश्ने ऽनुनये ऽतीतार्थे विकल्पवितर्कयोरिति हैमः । पश्चादर्थे सादृश्यार्थे चानु ।" पश्चादर्थे यथा । रथमनुगच्छति । सादृश्ये यथा । ज्येष्ठं अनुकरोति । “ अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहायोरिति हैमः । प्रश्नादिपंचके ननु यथा ।” प्रश्ने यथा । ननु किमेतत् । अवधारणे नन्वयं योगी । “ अनुज्ञायां यथा । ननु गच्छ ।” अनुनयः सांत्वनम् । ननु कोपं मुंच दयां कुरु । आमंत्रणं संबोधनम् । ननु राजन् । “नन्वाक्षेपे परिप्रने प्रत्युक्ताववधारणे । वाक्यारंभे ऽप्यनुनयामंत्रणानुज्ञयोरपीति हैमः"॥२४७॥ गर्हादिपंचके क्रमादपिशब्दो यथा । अपि सिंचेत्पलांडुम् । त्रियं पालय पुत्रमपि । अपि जानासि किंचित्त्वम् । अपि चोरो भवेत् । अपि स्थाणुं जयेद्रामः । युक्तपदार्थे कामचारक्रियासु च अपिशब्दः। उपमाविकल्पयोर्वाशब्दः स्यात् । उपमायां यथा। आशीविषो वा संक्रुद्धः । विकल्पे यथा । शिवं वा यदि वा विष्णुम् । “ वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चय इति विश्वः।" अर्धे सामि यथा । सामि संमिताक्षी। जुगुप्सिते यथा । सामि कृतमकल्याणकारि॥२४८॥सहार्थे यथा।पुत्रेणामा भुंक्ते। समीपे यथा ।अमात्यः समीपवर्तीत्यर्थः ।अमांतिकसहार्थयोरिति कोशांतरे च ।कं शिरःसुखवारिध्विति मेदिनी। इवार्थे इत्थमर्थे च एवंशब्दो यथा । अग्निरेवं द्विजः अग्निरिवेत्यर्थः । इत्थमर्थे प्रकारे । एवं वादिनि देवर्षों । “एवं प्रकारोपमयोरंगीकारे ऽवधारणे इति धरणिहेमचंद्रौ । तर्के नूनं यथा। ननमयमतियज्वनां प्रियः ।अर्थनिश्चये यथा। क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ।" नूनं निश्चिततर्कयोरिति विश्वः ॥ २४९ ॥ तूष्णीमर्थे मौने यथा । जोषं तिष्ट । “सुखे यथा । जोषमासीत वर्षासु । जोषं सुखे
For Private And Personal