SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४३ तृतीयं कांडम्. आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात्कोपपीडयोः॥ पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिंदयोः॥ २३९॥ चान्वाचयसमाहारेतरेतरसमुच्चये॥ खस्त्याशी क्षेमपुण्यादौ प्रकर्षे लंघने ऽप्यति ॥ २४०॥ स्वित्प्रश्ने च वितर्के च तु सा दे ऽवधारणे ॥ यः प्रगृह्यसंज्ञकः आ इति निपातः सः स्मृतौ स्मरणे वाक्ये वाक्यपूरणे च वर्तते । प्रगृह्यस्त्वचि नित्यं प्रकृत्या वर्तते तत्र । स्मृतौ यथा । आ एवं किल तत् । वाक्ये तु आ एवं मन्यसे ॥ “आ प्रगृह्यः स्मृतौ वाक्ये ऽनुकंपायां समुच्चय इति मेदिनी ।" सविसर्गस्त्वा इति यो निपातः स पीडायां कोपे च वर्तते । तत्र पीडायां यथा । आः शीतम् । कोपे यथा । आः पाप किं विकत्यसे । " आः स्मरणे ऽपाकरणे कोपसंतापयोरपीति कोशांतरम् ।” पापाद्यर्थत्रये कुशब्दः । पापे यथा । कुकर्म । कुत्सायां यथा । कापथः । ईषदर्थे यथा । कवोष्णम् । कु पापीयसि कुत्सायामीषदर्थे निवारण इति हैमः । कु कुत्सायां निवारण इति विश्वः।" अपकारशब्दैर्भयोत्पादनं निर्भर्सनम् । दोषाख्यानमात्रं निंदा । निर्भर्त्सने यथा । धिक् त्वां ताडनाहमनध्ययनशीलम् । निंदायां यथा । धिक् परस्त्रीगामिनं पुरुषम् ॥ २३९ ॥ अन्वाचयाद्यर्थचतुष्के चशब्दः । अन्यतरस्यानुषंगिकत्वे ऽन्वाचयः । तत्र यथा भिक्षामट गां चानय । समाहारः समूहः तत्र यथा । संज्ञा च परिभाषा च संज्ञापरिभाषम् । मिलितानामन्वय इतरेतरयोगः । यथा धवश्च खदिरश्च धवखदिरौ । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । तत्र यथा । ईश्वरं गुरुं च भजस्वेति । “च पादपूरणे पक्षांतरे हेतौ विनिश्चय इति त्रिकांडशेषः।" आशीराशीर्वादः तत्र । यथा स्वस्ति ते भूयात् । क्षेमे निरुपद्रवे । यथा स्वस्ति गच्छ । “ पुण्ये । यथा स्वस्तिमान्स्वर्गमश्नुते । आदिना स्वस्ति स्यान्मंगले पुण्ये ऽप्याशंसायामपि क्वचिदिति मेदिनी । प्रकर्षे अति । यथा अत्युत्तमो विष्णुः । अति प्रकर्षे लंघने भृशे स्तुतावसंप्रतिक्षेपे ऽपीति हैमः ।" अतिवेलं जलधितलम् ॥ २४० ॥ प्रश्नवितर्कयोः स्वित् । प्रश्ने यथा । किं स्वित्कुशलमस्ति । वितर्को नानापक्षविमर्शः। यथा सर्वेश्वरत्वं विष्णोराहोस्विच्छिवस्य । “ स्वित्प्रश्ने च वितर्के च तथैव पादपूरण For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy