SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. कुंभौ घटेभमूर्दाशौ डिंभौ तु शिशुवालिशौ ॥ संभौ स्थूणाजडीभावौ शंभू ब्रह्मत्रिलोचनौ ।। १३४॥ कुक्षिभ्रूणार्भका गर्भा विसंभः प्रणये ऽपि च ॥ स्याद्रेर्या दुंदुभिः पुंसि स्यादक्षे दुंदुभिः स्त्रियाम् ।।१३५॥ स्यान्महारजने क्लीव कुसुंभं करके पुमान ॥ क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ॥ १३६॥ सभा संसदि सभ्ये च त्रिष्षध्यक्षेऽपि वल्लभः।।इति भांताः॥ किरणप्रग्रहौ रश्मी कपिभेकौ प्लवंगमौ ॥ १३७॥ इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ शिरोभागः । " कुंभः स्यात्कुंभकर्णस्य सुते वेश्यापतौ घटे ॥ राशिभेदे द्विपांगे चेति विश्वः ।" बालिशो मूर्खः । स्थूणा गृहस्तंभः । जडीभावो जडत्वम् । " शंभुर्ब्रह्माहतोः शिव इति हैमः" ॥ १३४ ॥ भ्रूणो गर्भस्थो जंतुः । अर्भकः शिशुः । एते गर्भाः । “ गर्भः कुक्षौ शिशौ संधौ भ्रूणे पनसकंटक इति हैमः ।" प्रणये श्रृंगारप्रार्थनायां अपिशव्दाद्विश्वासादौ विस्रंभः विश्रंभोऽपि । “विश्रंभः केलिकलहे विश्वासे प्रणये वध इति विश्वहैमौ ॥" दुंदुभिर्भेयाँ पुंसि । अक्षे बालक्रीडोपकरणे तितरिंगि इति देशांतरप्रसिद्ध स्त्रियाम् । “दुंदुभिः पुमान् । वरुणे दैत्यभेर्योश्च व्यक्षबिंदुत्रिकद्वये इति मेदिनी " ॥ १३५ ॥ महारजने पुष्पभेदे । येन रक्तं वस्त्रं कौसुंभम् । करके कमंडलौ । क्षत्रिये नाभिः पुंसि । अपिशब्दान्मुख्यनृपे चक्रमध्ये च । प्राण्यंगे तु द्वयोः । मृगभेदे तु स्त्रियाम् । गवि सौरभेय्याम् । सुरभिः स्त्री । चकाराद्वसंतजातीफलचंपकेषु ना । सुगंधिमनोज्ञयोनिषु । सुवर्णे पंकजे च क्लीबम्" ॥ १३६ ॥ संसदि सदसि । सभ्यः सदस्यः । “ स्त्रियां सामाजिके गोष्ठयां द्यूतमंदिरयोः सभेति रभसः ।" अपिशब्दादयिते । “कुलीनाश्वे" च वल्लभः । वल्लभो दयिते ऽध्यक्षे सलक्षणतुरंगम इति कोशांतरात् ॥ इति भांताः ॥ अथ मांतानाह । अश्वादेबंधनरज्जुः प्रप्रहः । रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपीति मेदिनी ॥ १३७ ॥ मनोभवो मदनः । शौर्य सामर्थ्यम् । पुण्यादौ षट्के धर्मशब्दस्तत्र । यमों ऽतकः । न्याये यथा धर्माध्यक्षः। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy