________________
Shri Mahavir Jain Aradhana Kendra
३]
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तृतीयं कांडम्.
हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ॥ ५८ ॥ यंता हस्तिपके सूते भर्ता धातरि पोष्टरि || यानपात्रे शिशौ पोतः प्रेतः प्राप्यंतरे मृते ।। ५९॥ ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे ।। ६० ।। मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमे ऽपि च ॥ विष्णावप्यजिताव्यक्तौ स्तस्त्वष्टर सारथौ ॥ ६१॥ व्यक्तः प्राज्ञे ऽपि दृष्टांतावुभौ शास्त्रनिदर्शने ॥ क्षता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ॥ ६२ ॥ वृत्तांतः स्यात्प्रकरणे प्रकारे कायैवार्तयोः ॥
For Private And Personal
३०१
66
पाणिः करः । नक्षत्रं त्रयोदशम् । पवनो वायुरमरच मरुत्संज्ञौ ॥ ५८ ॥ महामात्र सारथी यंतारौ । धाता धारकः । स्वामिन्यपि भर्ता । " यानपात्रे वहित्रे “ गृहस्थाने वाससि च पोतः । प्राण्यंतरे भूतांतरे ॥ ५९ ॥ केतुर्ना रुपताकारिग्रहोत्पातेषु लक्ष्मणीति मेदिनी" । पार्थिवे राज्ञि । तनये पुत्रे । कारुः शिल्पी तद्भेदे । अपिशब्दात्कंचुकिनि जीवेष्टियाजके च स्थपतिः । भूमिधरः शैलः ॥ ६० ॥ “ अपिशब्दात् " प्रधाने क्षत्रियमात्रे च मूर्धाभिषिक्तः । स्त्रीकुसुमे रजसि हेमंतादौ च ऋतुः अजितश्चाव्यक्तश्चेति तकारांताविमौ विष्णावपि वर्तेते । अपिशब्दादपरिभूते शंकरे चाजितः । अव्यक्तः शंकरे विष्णावव्यक्तं महदादिके । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवदिति विश्वः । त्वष्टरि शिल्पिभेदे । क्षत्रियाद्ब्राह्मणीजेऽपि सूतः सारथिबंदिनोरिति विश्वः ॥ ६१ ॥ स्फुटे ऽपि व्यक्तः । शास्त्रं तर्कादि । निदर्शनमुदाहरणम् । इमे उभौ दृष्टांतौ । द्वाःस्थे द्वारपाले । वैश्यायामित्यपपाठः । क्षत्ता शूद्रात्क्षत्रियाजे इति विश्वकोI शात् । चात् भुजिष्यातनये ॥ ६२ ॥ प्रकरणं प्रस्तावः । प्रकारो भावः । कात्रर्थं साकल्यम् । वार्ता जनश्रुतिः । नृत्यस्थाने नृत्यमंडपे । नीवृद्विशेषो जनपदविशेषः स च पश्चिमसागरस्थो द्वारावती । आनर्तो नृत्यशालायां जने जन