________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तृतीयं कांडम्.
२८९ तिलकल्के च पिण्याको बॉल्हीकं रामठे ऽपि च ॥९॥ महेंद्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥ रुक्तापशंकास्वातंकः स्वल्पे ऽपि क्षुल्लकस्त्रिषु ॥ १०॥ जैवातकः शशांके ऽपि खुरे ऽप्यश्वस्य वर्तकः॥ व्याघे ऽपि पुंडरीको ना यवान्यामपि दीपकः॥ ११ ॥ शालाकाः कपिक्रोष्टुश्वानः स्वर्णे ऽपि गैरिकम् ॥ पीडार्थे ऽपि व्यलीकं स्यादलीकं त्वप्रिये ऽनृते ॥ १२॥ शीलान्वयावनके द्वे शल्के शकलवल्कले ॥ साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥
मिति । बाल्हीकमित्यपि" ॥ ९ ॥ व्यालग्राह्याहितुंडिकः । कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः । विश्वामित्रे च कोशज्ञोलूकयोरपि कौशिक इति विश्वः । रुक् रोगः । तापः संतापः । शंका भयं अत्रातंक इति नाम । स्वल्पे अपि शब्दानीचकनिष्ठदरिद्रेष्वपि क्षुल्लकः । क्षुल्लकस्त्रिषु नीचे ऽल्पे इति कोशांतरात् ॥१०॥ जैवातृकः पुमान्सोमे दीर्घायुः कुशयोत्रिषु । अपिशब्दात्पक्षिभेदे च वर्तकः । अपिशव्दादग्नौ दिग्गजादौ च पुंसि पुंडरीकः । सितांभोजादौ क्लीवे च । यवानी ओषधीभेदः अजमोदाख्यः । अपिशब्दादर्हिचूडे ऽपि दीपकः प्रकाशे ऽपि । “दीप्यक इत्यपि” ॥ ११॥ कप्यादयः शालावृकाः स्युः । अपिशब्दाद्गुरू इति ख्याते धातौ च गैरिकम् । “गैरिकं धातुरुक्मयोरिति मेदिनी ।” व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडने इति विश्वः ॥ १२ ॥ शीलं स्वभावो ऽन्वयो वंशः तत्रानूकमिति । “ अनूकं तु कुले शीले पुंसि स्याद्गतजन्मनीति मेदिनी ।" शकलं खंडम् । वल्कलं त्वक् हे शल्के इति । सुवर्णानां हेनः कर्षाणां साष्टे शते ऽष्टाधिकशतके निष्कः। सहाष्टभिर्वर्तत इति साष्टम्। सराजस्त्वयमितिवत् । यथा हेम्नि सुवर्णमात्रे उरसो वक्षसो भूषणे हेमपले च दीनारे सांव्यवहारिके द्रव्यभेदे च निष्कः । पलं कर्षचतुष्टयम् । गुंजानामशीतिः कर्षः ॥ १३ ॥ शमलं पुरीषम् । एनः पापम् । “त्रिषु पापशये कल्को ऽस्त्री विट्
For Private And Personal